कूर्मपुराणम्-पूर्वभागः/द्वात्रिंशत्तमोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search

Template:कूर्मपुराणम्-पूर्वभागः

सूत उवाच ।
स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः ।
जगाम विपुलं लिङ्गमोंकारं मुक्तिदायकम् ।। ३२.१

तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः ।
प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ।। ३२.२

इदं तद् विमलं लिङ्गमोंकारं नाम शोभनम् ।
अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ।। ३२.३

एतत् परतरं ज्ञानं पञ्चयतनमुत्तमम् ।
सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ।। ३२.४

अत्र साक्षान्महादेवः पञ्चायतनविग्रहः ।
रमते भगवान् रुद्रो जन्तूनामपवर्गदः ।। ३२.५

यत् तत् पाशुपतं ज्ञानं पञ्चार्थमिति शक्यते ।
तदेतद् विमलं लिङ्गमोङ्कारं समवस्थितम् ।। ३२.६

शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला ।
प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ।। ३२.७

पञ्चानामपि देवानां ब्रह्मादीनां सदाश्रयम् ।
ओंकारबोधतं लिङ्गं पञ्चायतनमुच्यते ।। ३२.८

संस्मरेदैश्वरं लिङ्गं पञ्चायतनमव्ययम् ।
देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ।। ३२.९

अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा ।
उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ।। ३२.१०

मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतम शुभम् ।
गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम् ।। ३२.११

कृत्तिवासेश्वरं लिङ्गं मध्यमेश्वरमुत्तमम् ।
विश्वेश्वरं तथोंकारं कपर्दीश्वरमेव च ।। ३२.१२

एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः ।
न कश्चिदिह जानाति विना शंभोरनुग्रहात् ।। ३२.१३

एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः ।
कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ।। ३२.१४

समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः ।
कथयामास विप्रेभ्यो भगवान् ब्रह्मवित्तमः ।। ३२.१५

अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् ।
ब्राह्मणान् हन्तुमायातो येऽत्र नित्यमुपासते ।। ३२.१६

तेषां लिङ्गान्महादेवः प्रादुरासीत् त्रिलोचनः ।
रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ।। ३२.१७

हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः ।
वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः ।। ३२.१८

अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुंगवाः ।
तेनैव च शरीरेण प्राप्तास्तत् परमं पदम् ।। ३२.१९

विद्या विद्येश्वरा रुद्राः शिवाये च प्रकीर्त्तिताः ।
कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ।। ३२.२०

ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः ।
कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ।। ३२.२१

जन्मान्तरसहस्रेण मोक्षोऽन्यत्राप्यते न वा ।
एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ।। ३२.२२

आलयः सर्वसिद्धानामेतत् स्थानं वदन्ति हि ।

गोपितं देवदेवेन महादेवेन शंभुना ।। ३२.२३
युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारागाः ।
उपासते महादेवं जपन्ति शतरुद्रियम् ।। ३२.२४

स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् ।
ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ।। ३२.२५

गायन्ति सिद्धाः किल गीतकानि
ये वाराणस्यां निवसन्ति विप्राः ।
तेषामथैकेन भवेन मुक्तिर्
ये कृत्तिवासं शरणं प्रपन्नाः ।। ३२.२६

संप्राप्य लोके जगतामभीष्टं।
सुदुर्लभं विप्रकुलेषु जन्म ।।
ध्याने समाधाय जपन्ति रुद्रं।
ध्यायन्ति चित्ते यतयो महेशम् ।। ३२.२७

आराधयन्ति प्रभुमीशितारं।
वाराणसीमध्यगता मुनिन्द्राः ।।
यजन्ति यज्ञैरभिसंधिहीनाः
स्तुवन्ति रुद्रं प्रणमन्ति शंभुम् ।। ३२.२८

नमो भवायामलयोगधाम्ने।
स्थाणुं प्रपद्ये गिरिशं पुराणम् ।।
स्मरामि रुद्रं हृदये निविष्टं
जाने महादेवमनेकरूपम् ।। ३२.२९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां द्वात्रिंशोऽध्यायः ।।

वर्गः:कूर्मपुराणम्-पूर्वभागः

Page is sourced from

sa.wikisource.org कूर्मपुराणम्-पूर्वभागः/द्वात्रिंशत्तमोऽध्यायः