ऋग्वेदः सूक्तं ८.७६

From HinduismPedia
Jump to navigation Jump to search


इमं नु मायिनं हुव इन्द्रमीशानमोजसा ।
मरुत्वन्तं न वृञ्जसे ॥१॥
अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः ।
वज्रेण शतपर्वणा ॥२॥
वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत् ।
सृजन्समुद्रिया अपः ॥३॥
अयं ह येन वा इदं स्वर्मरुत्वता जितम् ।
इन्द्रेण सोमपीतये ॥४॥
मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम् ।
इन्द्रं गीर्भिर्हवामहे ॥५॥
इन्द्रं प्रत्नेन मन्मना मरुत्वन्तं हवामहे ।
अस्य सोमस्य पीतये ॥६॥
मरुत्वाँ इन्द्र मीढ्वः पिबा सोमं शतक्रतो ।
अस्मिन्यज्ञे पुरुष्टुत ॥७॥
तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः ।
हृदा हूयन्त उक्थिनः ॥८॥
पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु ।
वज्रं शिशान ओजसा ॥९॥
उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।
सोममिन्द्र चमू सुतम् ॥१०॥
अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
इन्द्र यद्दस्युहाभवः ॥११॥
वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
इन्द्रात्परि तन्वं ममे ॥१२॥


Template:सायणभाष्यम्

Template:ऋग्वेदः मण्डल ८

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं ८.७६