ऋग्वेदः सूक्तं ८.७३

From HinduismPedia
Jump to navigation Jump to search


उदीराथामृतायते युञ्जाथामश्विना रथम् ।
अन्ति षद्भूतु वामवः ॥१॥
निमिषश्चिज्जवीयसा रथेना यातमश्विना ।
अन्ति षद्भूतु वामवः ॥२॥
उप स्तृणीतमत्रये हिमेन घर्ममश्विना ।
अन्ति षद्भूतु वामवः ॥३॥
कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः ।
अन्ति षद्भूतु वामवः ॥४॥
यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवम् ।
अन्ति षद्भूतु वामवः ॥५॥
अश्विना यामहूतमा नेदिष्ठं याम्याप्यम् ।
अन्ति षद्भूतु वामवः ॥६॥
अवन्तमत्रये गृहं कृणुतं युवमश्विना ।
अन्ति षद्भूतु वामवः ॥७॥
वरेथे अग्निमातपो वदते वल्ग्वत्रये ।
अन्ति षद्भूतु वामवः ॥८॥
प्र सप्तवध्रिराशसा धारामग्नेरशायत ।
अन्ति षद्भूतु वामवः ॥९॥
इहा गतं वृषण्वसू शृणुतं म इमं हवम् ।
अन्ति षद्भूतु वामवः ॥१०॥
किमिदं वां पुराणवज्जरतोरिव शस्यते ।
अन्ति षद्भूतु वामवः ॥११॥
समानं वां सजात्यं समानो बन्धुरश्विना ।
अन्ति षद्भूतु वामवः ॥१२॥
यो वां रजांस्यश्विना रथो वियाति रोदसी ।
अन्ति षद्भूतु वामवः ॥१३॥
आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम् ।
अन्ति षद्भूतु वामवः ॥१४॥
मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतम् ।
अन्ति षद्भूतु वामवः ॥१५॥
अरुणप्सुरुषा अभूदकर्ज्योतिरृतावरी ।
अन्ति षद्भूतु वामवः ॥१६॥
अश्विना सु विचाकशद्वृक्षं परशुमाँ इव ।
अन्ति षद्भूतु वामवः ॥१७॥
पुरं न धृष्णवा रुज कृष्णया बाधितो विशा ।
अन्ति षद्भूतु वामवः ॥१८॥


Template:सायणभाष्यम् Template:ऋग्वेदः मण्डल ८

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं ८.७३