ऋग्वेदः सूक्तं ८.५५
Jump to navigation
Jump to search
भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति ।
राधस्ते दस्यवे वृक ॥१॥
शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते ।
मह्ना दिवं न तस्तभुः ॥२॥
शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि ।
शतं मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥३॥
सुदेवा स्थ काण्वायना वयोवयो विचरन्तः ।
अश्वासो न चङ्क्रमत ॥४॥
आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः ।
श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे ॥५॥