ऋग्वेदः सूक्तं ८.४९

From HinduismPedia
Jump to navigation Jump to search


अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥
आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।
आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसे ॥३॥
अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।
आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥४॥
आ न स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।
यं ते स्वधावन्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥५॥
उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् ।
उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥६॥
यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि ।
अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥७॥
अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।
येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥८॥
एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः ।
यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥९॥
यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे ।
यथा गोशर्ये असनोरृजिश्वनीन्द्र गोमद्धिरण्यवत् ॥१०॥

  • वाराणसीस्थराजकीयसंस्कृतपाठशालायाः प्राप्ते ज्ञ-संज्ञकलिखितपुस्तके वालखिल्यसूक्तानां भाष्यं लिखितमुपलभ्यते । परं त्वितरेषु सर्वेष्वपि पुस्तकेष्वनुपलम्भात् व्याख्याशैल्या विभिन्नत्वाच्च नैतत्सायणाचार्यकृतमिति व्यक्तं प्रतीयते । तथाप्येतद्विदुषामुपयोगाय स्यादिति मत्वात्र दीयते । एतस्मिन् विषयेऽस्माभिः पृष्टा एतत्पाठशालाधिकारिणः एवं लिखन्ति- एतद्धस्तलिखितं पाठशालायाः कृते रेवानगरे क्रीतमासीत् । तस्य लेखनं पुण्यपत्तन एवाभूदिति श्रूयते । एतल्लिखितपुस्तकगतवालखिल्यसूक्तभाष्यं केन विरचितमिति निश्चितं वक्तुमशक्यम् । न केनापि वाराणसीस्थेन पण्डितेनैतद्विरचितमिति निश्चितमेव'।

Template:भाष्यम्


Template:टिप्पणी

Template:ऋग्वेदः मण्डल ८

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं ८.४९