ऋग्वेदः सूक्तं ८.३८

From HinduismPedia
Jump to navigation Jump to search


यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
इन्द्राग्नी तस्य बोधतम् ॥१॥
तोशासा रथयावाना वृत्रहणापराजिता ।
इन्द्राग्नी तस्य बोधतम् ॥२॥
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।
इन्द्राग्नी तस्य बोधतम् ॥३॥
जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती ।
इन्द्राग्नी आ गतं नरा ॥४॥
इमा जुषेथां सवना येभिर्हव्यान्यूहथुः ।
इन्द्राग्नी आ गतं नरा ॥५॥
इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम ।
इन्द्राग्नी आ गतं नरा ॥६॥
प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू ।
इन्द्राग्नी सोमपीतये ॥७॥
श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् ।
इन्द्राग्नी सोमपीतये ॥८॥
एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
इन्द्राग्नी सोमपीतये ॥९॥
आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे ।
याभ्यां गायत्रमृच्यते ॥१०॥


Template:सायणभाष्यम्

Template:ऋग्वेदः मण्डल ८

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं ८.३८