ऋग्वेदः सूक्तं ६.४२
Jump to navigation
Jump to search
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।
अरंगमाय जग्मयेऽपश्चाद्दघ्वने नरे ॥१॥
एमेनं प्रत्येतन सोमेभिः सोमपातमम् ।
अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ॥२॥
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।
वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते ॥३॥
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् ।
कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् ॥४॥