ऋग्वेदः सूक्तं ४.८

From HinduismPedia
Jump to navigation Jump to search


दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् ।
यजिष्ठमृञ्जसे गिरा ॥१॥
स हि वेदा वसुधितिं महाँ आरोधनं दिवः ।
स देवाँ एह वक्षति ॥२॥
स वेद देव आनमं देवाँ ऋतायते दमे ।
दाति प्रियाणि चिद्वसु ॥३॥
स होता सेदु दूत्यं चिकित्वाँ अन्तरीयते ।
विद्वाँ आरोधनं दिवः ॥४॥
ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः ।
य ईं पुष्यन्त इन्धते ॥५॥
ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे ।
ये अग्ना दधिरे दुवः ॥६॥
अस्मे रायो दिवेदिवे सं चरन्तु पुरुस्पृहः ।
अस्मे वाजास ईरताम् ॥७॥
स विप्रश्चर्षणीनां शवसा मानुषाणाम् ।
अति क्षिप्रेव विध्यति ॥८॥


Template:सायणभाष्यम्

Template:ऋग्वेदः मण्डल ४

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं ४.८