ऋग्वेदः सूक्तं ३.२४

From HinduismPedia
Jump to navigation Jump to search


अग्ने सहस्व पृतना अभिमातीरपास्य ।
दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे ॥१॥
अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः ।
जुषस्व सू नो अध्वरम् ॥२॥
अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत ।
एदं बर्हिः सदो मम ॥३॥
अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः ।
यज्ञेषु य उ चायवः ॥४॥
अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् ।
शिशीहि नः सूनुमतः ॥५॥


Template:सायणभाष्यम्

Template:ऋग्वेदः मण्डल ३

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं ३.२४