ऋग्वेदः सूक्तं १.७८

From HinduismPedia
Jump to navigation Jump to search


अभि त्वा गोतमा गिरा जातवेदो विचर्षणे ।
द्युम्नैरभि प्र णोनुमः ॥१॥
तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति ।
द्युम्नैरभि प्र णोनुमः ॥२॥
तमु त्वा वाजसातममङ्गिरस्वद्धवामहे ।
द्युम्नैरभि प्र णोनुमः ॥३॥
तमु त्वा वृत्रहन्तमं यो दस्यूँरवधूनुषे ।
द्युम्नैरभि प्र णोनुमः ॥४॥
अवोचाम रहूगणा अग्नये मधुमद्वचः ।
द्युम्नैरभि प्र णोनुमः ॥५॥


Template:सायणभाष्यम् Template:ऋग्वेदः मण्डल १

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं १.७८