ऋग्वेदः सूक्तं १.१५

From HinduismPedia
Jump to navigation Jump to search
File:Water Lilly Purple-03+ (317025434).jpg
पद्म-भ्रमर

इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः ।
मत्सरासस्तदोकसः ॥१॥
मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन ।
यूयं हि ष्ठा सुदानवः ॥२॥
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना ।
त्वं हि रत्नधा असि ॥३॥
अग्ने देवाँ इहा वह सादया योनिषु त्रिषु ।
परि भूष पिब ऋतुना ॥४॥
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु ।
तवेद्धि सख्यमस्तृतम् ॥५॥
युवं दक्षं धृतव्रत मित्रावरुण दूळभम् ।
ऋतुना यज्ञमाशाथे ॥६॥
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ।
यज्ञेषु देवमीळते ॥७॥
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ।
देवेषु ता वनामहे ॥८॥
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
नेष्ट्रादृतुभिरिष्यत ॥९॥
यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे ।
अध स्मा नो ददिर्भव ॥१०॥
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता ।
ऋतुना यज्ञवाहसा ॥११॥
गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि ।
देवान्देवयते यज ॥१२॥

Template:सायणभाष्यम्


Template:टिप्पणी


Template:ऋग्वेदः मण्डल १

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं १.१५