ऋग्वेदः सूक्तं १.१

From HinduismPedia
Jump to navigation Jump to search


File:14 Ratna of Chakravartin.png
चतुर्दशरत्नानि (वायुपुराणम् ५७.६९)

Template:ऋग्वेदः मण्डल १


ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॓ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥१॥
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
स देवाँ एह वक्षति ॥२॥
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे ।
यशसं वीरवत्तमम् ॥३॥
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
स इद्देवेषु गच्छति ॥४॥
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
देवो देवेभिरा गमत् ॥५॥
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
तवेत् तत् सत्यमङ्गिरः ॥६॥
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥७॥
राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥८॥
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥९॥

Template:सायणभाष्यम्


Template:टिप्पणी


वर्गः:ऋग्वेदः

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं १.१