ऋग्वेदः सूक्तं १०.७६

From HinduismPedia
Jump to navigation Jump to search
File:अर्बुदः कार्द्रवेयः.jpg
अर्बुदः कार्द्रवेयः
File:Bangkok Wat Arun Phra Prang Indra Erawan.jpg
बैंकाक नगरे अरुणमन्दिरे ऐरावतोपरि इन्द्रः
File:Airavateswarar.JPG
ऐरावतेश्वरः

आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन ।
उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदा ॥१॥
तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि ।
विदद्ध्यर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥२॥
तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् ।
गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वराँ अशिश्रयुः ॥३॥
अप हत रक्षसो भङ्गुरावत स्कभायत निरृतिं सेधतामतिम् ।
आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयः ॥४॥
दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः ।
वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः ॥५॥
भुरन्तु नो यशसः सोत्वन्धसो ग्रावाणो वाचा दिविता दिवित्मता ।
नरो यत्र दुहते काम्यं मध्वाघोषयन्तो अभितो मिथस्तुरः ॥६॥
सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषो दुहन्ति ते ।
दुहन्त्यूधरुपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥७॥
एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः ।
वामंवामं वो दिव्याय धाम्ने वसुवसु वः पार्थिवाय सुन्वते ॥८॥




Template:सायणभाष्यम्


ऐरावतोपरि पौराणिकाः संदर्भाः

ऐरावतोपरि टिप्पणी

Template:टिप्पणी

Template:ऋग्वेदः मण्डल १०

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं १०.७६