ऋग्वेदः सूक्तं १०.१८७
Jump to navigation
Jump to search
प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
स नः पर्षदति द्विषः ॥१॥
यः परस्याः परावतस्तिरो धन्वातिरोचते ।
स नः पर्षदति द्विषः ॥२॥
यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा ।
स नः पर्षदति द्विषः ॥३॥
यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पर्षदति द्विषः ॥४॥
यो अस्य पारे रजसः शुक्रो अग्निरजायत ।
स नः पर्षदति द्विषः ॥५॥