ऋग्वेदः सूक्तं १०.१८५
Jump to navigation
Jump to search
महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥१॥
नहि तेषाममा चन नाध्वसु वारणेषु ।
ईशे रिपुरघशंसः ॥२॥
यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय ।
ज्योतिर्यच्छन्त्यजस्रम् ॥३॥