ऋग्वेदः सूक्तं १०.१८१

From HinduismPedia
Jump to navigation Jump to search


प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् ।
धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः ॥१॥
अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् ।
धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥२॥
तेऽविन्दन्मनसा दीध्याना यजु ष्कन्नं प्रथमं देवयानम् ।
धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥३॥


Template:सायणभाष्यम्

Template:ऋग्वेदः मण्डल १०

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं १०.१८१