ऋग्वेदः सूक्तं १०.११९
इति वा इति मे मनो गामश्वं सनुयामिति ।
कुवित्सोमस्यापामिति ॥१॥
प्र वाता इव दोधत उन्मा पीता अयंसत ।
कुवित्सोमस्यापामिति ॥२॥
उन्मा पीता अयंसत रथमश्वा इवाशवः ।
कुवित्सोमस्यापामिति ॥३॥
उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम् ।
कुवित्सोमस्यापामिति ॥४॥
अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् ।
कुवित्सोमस्यापामिति ॥५॥
नहि मे अक्षिपच्चनाच्छान्त्सुः पञ्च कृष्टयः ।
कुवित्सोमस्यापामिति ॥६॥
नहि मे रोदसी उभे अन्यं पक्षं चन प्रति ।
कुवित्सोमस्यापामिति ॥७॥
अभि द्यां महिना भुवमभीमां पृथिवीं महीम् ।
कुवित्सोमस्यापामिति ॥८॥
हन्ताहं पृथिवीमिमां नि दधानीह वेह वा ।
कुवित्सोमस्यापामिति ॥९॥
ओषमित्पृथिवीमहं जङ्घनानीह वेह वा ।
कुवित्सोमस्यापामिति ॥१०॥
दिवि मे अन्यः पक्षोऽधो अन्यमचीकृषम् ।
कुवित्सोमस्यापामिति ॥११॥
अहमस्मि महामहोऽभिनभ्यमुदीषितः ।
कुवित्सोमस्यापामिति ॥१२॥
गृहो याम्यरंकृतो देवेभ्यो हव्यवाहनः ।
कुवित्सोमस्यापामिति ॥१३॥
९
प्रमादस्त्वेष हन्ताहं न स स्व इत्यपह्नवः । इन्द्राकुत्सेत्युपप्रैषो न विजानामि संज्वरः ।।बृहद्देवता १.५६ ।।