वामनपुराणम्/अष्टचत्वारिंशत्तमोऽध्यायः

From HinduismPedia
Revision as of 23:58, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:वामनपुराणम्

सनत्कुमार उवाच
अथैनमब्रवीद् देवस्त्रैलोक्याधिपतिर्भवः
आश्वासनकरं चास्य वाक्यविद् वाक्यमुत्तमम् १
अहो तुष्टोऽस्मि ते राजन् स्तवेनानेन सुव्रत
बहुनात्र किमुक्तेन मत्समीपे वसिष्यसि २
उषित्वा सुचिरं कालं मम गात्रोद्भवः पुनः
असुरो ह्यन्धको नाम भविष्यसि सुरान्तकृत् ३
हिरण्याक्षगृहे जन्म प्राप्य वृद्धिं गमिष्यसि
पूर्वाधर्मेण घोरेण वेदनिन्दाकृतेन च ४
साभिलाषो जगन्मातुर्भविष्यसि यदा तदा
देहं शूलेन हत्वाहं पावयिष्यामि समार्बुदम् ५
तत्राप्यकल्मषो भूत्वा स्तुत्वा मां भक्तितः पुनः
ख्यातो गणाधिपो भूत्वा नाम्ना भृङ्गिरिटिः स्मृतः ६
मत्सन्निधाने स्थित्वा त्वं ततः सिद्धिं गमिष्यसि
वेनप्रोक्तं स्तवमिमं कीर्तयेद् यः शृणोति च ७
नाशुभं प्राप्नुयात् किञ्चिद् दीर्घमायुरवाप्नुयात्
यथा सर्वेषु देवेषु विशिष्टो भगवाञ्शिवः ८
तथा स्तवो वरिष्ठोऽयं स्तवानां वेननिर्मितः
यशोराज्यसुखैश्वर्यधनमानाय कीर्तितः ९
श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः
व्याधितो दुःखितो दीनश्चौरराजभयान्वितः १०
राजकार्यविमुक्तो वा मुच्यते महतो भयात्
अनेनैव तु देहेन गणानां श्रेष्ठतां व्रजेत् ११
तेजसा यशसा चैव युक्तो भवति निर्मलः
न राक्षसाः पिशाचा वा न भूता न विनायकाः १२
विघ्नं कुर्युर्गृहे तत्र यत्रायं पठ्यते स्तवः
शृणुयाद् या स्तवं नारी अनुज्ञां प्राप्य भर्तृतः १३
मातृपक्षे पितुः पक्षे पूज्या भवति देववत्
शृणुयाद् यः स्तवं दिव्यं कीर्तयेद् वा समाहितः १४
तस्य सर्वाणि कार्याण सिद्धिं गच्छन्ति नित्यशः
मनसा चिन्तितं यच्च यच्च वाचानुकीर्तितम् १५
सर्वं संपद्यते तस्य स्तवनस्यानुकीर्तनात्
मनसा कर्मणा वाचा कृतमेनो विनश्यति
वरं वरय भद्रं ते यत्त्वया मनसेप्सितम् १६
वेन उवाच
अस्य लिङ्गस्य माहात्म्यात् तथा लिङ्गस्य दर्शनात्
मुक्तोऽहं पातकैः सर्वैस्तव दर्शनतः किल १७
यदि तुष्टोऽसि मे देव यदि देयो वरो मम
देवस्वभक्षणाज्जातं श्वयोनौ तव सेवकम् १८
एतस्यापि प्रसादं त्वं कर्तुमर्हसि शङ्कर
एतस्यापि भयान्मध्ये सरसोऽहं निमज्जितः १९
देवैर्निवारितः पूर्वं तीर्थेऽस्मिन् स्नानकारणात्
अयं कृतोपकारश्च एतदर्थे वृणोम्यहम् २०
तस्यैतद् वचनं श्रुत्वा तुष्टः प्रोवाच शङ्करः
एषोऽपि पापिनिर्मुक्तो भविष्यति न संशयः २१
प्रसादान्मे महाबाहो शिवलोकं गमिष्यति
तथा स्तवमिमं श्रुत्वा मुच्यते सर्वपातकैः २२
कुरुक्षेत्रस्य माहात्म्यं सरसोऽस्य महीपते
मम लिङ्गस्य चोत्पत्तिं श्रुत्वा पापैः प्रमुच्यते २३
सनत्कुमार उवाच
इत्येवमुक्त्वा भगवान् सर्वलोकनमस्कृतः
पश्यतां सर्वलोकानां तत्रैवान्तरधीयत २४
स च श्वा तत्क्षणादेव स्मृत्वा जन्म पुरातनम्
दिव्यमूर्तिधरो भूत्वा तं राजानमुपस्थितः २५
कृत्वा स्नानं ततो वैन्यः पितृदर्शनलालसः
स्थाणुतीर्थे कुटीं शून्यां दृष्ट्वा शोकसमन्वितः २६
दृष्ट्वा वेनोऽब्रवीद् वाक्यं हर्षेण महतान्वितः
सत्पुत्रेण त्वया वत्स त्रातोऽहं नरकार्णवात् २७
त्वयाभिषिञ्चितो नित्यं तीर्थस्थपुलिने स्थितः
अस्य साधोः प्रसादेन स्थाणोर्देवस्य दर्शनात् २८
मुक्तपापश्च स्वर्लोकं यास्ये यत्र शिवः स्थितः
इत्येवमुक्त्वा राजानं प्रतिष्ठाप्य महेश्वरम् २९
स्थाणुतीर्थे ययौ सिद्धिं तेन पुत्रेण तारितः
स च श्वा परमां सिद्धिं स्थाणुतीर्थप्रभावतः ३०
विमुक्तः कलुषैः सर्वैर्जगाम भवमन्दिरम्
राजा पितृऋणैर्मुक्तः परिपाल्य वसुन्धराम् ३१
पुत्रानुत्पाद्य धर्मेण कृत्वा यज्ञं निरर्गलम्
दत्त्वा कामांश्च विप्रेभ्यो भुक्त्वा भोगान् पृथग्विधान् ३२
सुहृदोऽथ ऋणैर्मुक्त्वा कामैः संतर्प्य च स्त्रियः
अभिषिच्य सुतं राज्ये कुरुक्षेत्रं ययौ नृपः ३३
तत्र तप्त्वा तपो घोरं पूजयित्वा च शङ्करम्
आत्मेच्छया तनुं त्यक्त्वा प्रयातः परमं पदम् ३४
एतत्प्रभावं तीर्थस्य स्थाणोर्यः शृणुयान्नरः
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ३५
इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टचत्वारिंशत्तमोऽध्यायः

वर्गः:वामनपुराणम्

Page is sourced from

sa.wikisource.org वामनपुराणम्/अष्टचत्वारिंशत्तमोऽध्यायः