वामनपुराणम्/चतुश्चत्वारिंशत्तमोऽध्यायः

From HinduismPedia
Revision as of 23:58, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:वामनपुराणम्

सनत्कुमार उवाच
ब्रह्मणो वचनं श्रुत्वा ऋषयः सर्व एव ते
पुनरेव च पप्रच्छुर्जगतः श्रेयकारणम् १
ब्रह्मोवाच
गच्छामः शरणं देवं शूलपाणिं त्रिलोचनम्
प्रसादाद् देवदेवस्य भविष्यथ यथा पुरा २
इत्युक्ता ब्रह्मणा सार्द्धं कैलासं गिरिमुत्तमम्
ददृशुस्ते समासीनमुमया सहितं हरम् ३
ततः स्तोतुं समारब्धो ब्रह्मा लोकपितामहः
देवाधिदेवं वरदं त्रैलोक्यस्य प्रभुं शिवम् ४
ब्रह्मोवाच
अनन्ताय नमस्तुभ्यं वरदाय पिनाकिने
महादेवाय देवाय स्थाणवे परमात्मने ५
नमोऽस्तु भुवनेशाय तुभ्यं तारक सर्वदा
ज्ञानानां दायको देवस्त्वमेकः पुरुषोत्तमः ६
नमस्ते पद्मगर्भाय पद्मेशाय नमो नमः
घोरशान्तिस्वरूपाय चण्डक्रोध नमोऽस्तु ते ७
नमस्ते देव विश्वेश नमस्ते सुरनायक
शूलपाणे नमस्तेऽस्तु नमस्ते विश्वभावन ८
एवं स्तुतो महादेवो ब्रह्मणा ऋषिभिस्तदा
उवाच मा भैर्व्रजत लिङ्गं वो भविता पुनः ९
क्रियतां मद्वयः शीघ्रं येन मे प्रीतिरुत्तमा
भविष्यति प्रतिष्ठायां लिङ्गस्यात्र न संशयः १०
ये लिङ्गं पूजयिष्यन्ति मामकं भक्तिमाश्रिताः
न तेषां दुर्लभं किंचिद् भविष्यति कदाचन ११
सर्वेषामेव पापानां कृतानामपि जानता
शुद्ध्यते लिङ्गपूजायां नात्र कार्या विचारणा १२
युष्माभिः पातितं लिङ्गं सारयित्वा महात्सरः
सांनिहत्यं तु विख्यातं तस्मिञ्शीघ्रं प्रतिष्ठितम् १३
यथाभिलषितं कामं ततः प्राप्स्यथ ब्राह्मणाः
स्थाणुर्नाम्ना हि लोकेषु पूजनीयो दिवौकसाम् १४
स्थाण्वीश्वरे स्थितो यस्मात्स्थाण्वीश्वरस्ततः स्मृतः
ये स्मरन्ति सदा स्थाणुं ते मुक्ताः सर्वकिल्बिषैः १५
भविष्यन्ति शुद्धदेहा दर्शनान्मोक्षगामिनः
इत्येवमुक्ता देवेन ऋषयो ब्रह्मणा सह १६
तस्माद् दारुवनाल्लिङ्गं नेतुं समुपचक्रमुः
न तं चालयितुं शक्तास्ते देवा ऋषिभिः सह १७
श्रमेण महता युक्ता ब्रह्माणं शरणं ययुः
तेषां श्रमाभितप्तानामिदं ब्रह्माब्रवीद् वचः १८
किं वा श्रमेण महता न यूयं वहनक्षमाः
स्वेच्छया पातितं लिङ्गं देवदेवेन शूलिना १९
तस्मात् तमेव शरणं यास्यामः सहिताः सुराः
प्रसन्नश्च महादेवः स्वयमेव नयिष्यति २०
इत्येवमुक्ता ऋषयो देवाश्च ब्रह्मणा सह
कैलासं गिरिमासेदू रुद्र दर्शनकाङ्क्षिणः २१
न च पश्यन्ति तं देवं ततश्चिन्तासमन्विताः
ब्रह्माणमूचुर्मुनयः क्व स देवो महेश्वरः २२
ततो ब्रह्मा चिरं ध्यात्वा ज्ञात्वा देवं महेश्वरम्
हस्तिरूपेण तिष्ठन्तं मुनिभिर्मानसैः स्तुतम् २३
अथ ते ऋषयः सर्वे देवाश्च ब्रह्मणा सह
गता महत्सरः पुण्यं यत्र देवः स्वयं स्थितः २४
न च पश्यन्ति तं देवमन्विष्यन्तस्ततस्ततः
ततश्चिन्तान्विता देवा ब्रह्मणा सहिता स्थिताः २५
पश्यन्ति देवीं सुप्रीतां कमण्डलुविभूषिताम्
प्रीयमाणा तदा देवी इदं वचनमब्रवीत् २६
श्रमेण महता युक्ता अन्विष्यन्तो महेश्वरम्
पीयताममृतं देवास्ततो ज्ञास्यथ शङ्करम्
एतच्छ्रुत्वा तु वचनं भवान्या समुदाहृतम् २७
सुखोपविष्टास्ते देवाः पपुस्तदमृतं शुचि
अनन्तरं सुखासीनाः पप्रच्छुः परमेश्वरीम् २८
क्व स देव इहायातो हस्तिरूपधरः स्थितः
दर्शितश्च तदा देव्या सरोमध्ये व्यवस्थितः २९
दृष्ट्वा देवं हर्षयुक्ताः सर्वे देवाः सहर्षिभिः
ब्रह्माणमग्रतः कृत्वा इदं वचनमब्रुवन् ३०
त्वया त्यक्तं महादेव लिङ्गं त्रैलोक्यवन्दितम्
तस्य चानयने नान्यः समर्थः स्यान्महेश्वर ३१
इत्येवमुक्तो भगवान् देवो ब्रह्मादिभिर्हरः
जगाम ऋषिभिः सार्द्धं देवदारुवनाश्रमम् ३२
तत्र गत्वा महादेवो हस्तिरूपधरो हरः
करेण जग्राह ततो लीलया परमेश्वरः ३३
तमादाय महादेवः स्तूयमानो महर्षिभिः
निवेशयामास तदा सरःपार्श्वे तु पश्चिमे ३४
ततो देवाः सर्व एव ऋषयश्च तपोधनाः
आत्मानं सफलं दृष्ट्वा स्तवं चक्रुर्महेश्वरे ३५
नमस्ते परमात्मन् अनन्तयोने लोकसाक्षिन् परमेष्ठिन् भगवन् सर्वज्ञ क्षेत्रज्ञ परावरज्ञ ज्ञानज्ञेय सर्वेश्वर महाविरिञ्च महाविभूते महाक्षेत्रज्ञ महापुरुष सर्वभूतावास मनोनिवास आदिदेव महादेव सदाशिव ईशान दुर्विज्ञेय दुराराध्य महाभूतेश्चर परमेश्वर महा-योगेश्वर त्र्! यम्बक महायोगिन् परब्रह्मन् परमज्योतिः ब्रह्मविदुत्तम ओङ्कार वषट्कार स्वाहाकार स्वधाकार परमकारण सर्वगत सर्व-दर्शिन् सर्वशक्ते सर्वदेव अज सहस्रार्चिः पृषार्चिः सुधामन् हरधाम अनन्तधाम संवर्त संकर्षण वडवानल अग्नीषोमात्मक पवित्र महा-पवित्र महामेघ महामायाधर महाकाम कामहन् हंस परमहंस महाराजिक महेश्वर महाकामुक महाहंस भवक्षयकर सुरसिद्धार्चित हिरण्यवाह हिरण्यरेतः हिरण्यनाभ हिरण्याग्रकेश मुञ्जकेशिन् सर्वलोकवरप्रद सर्वानुग्रहकर कमलेशय कुशेशय हृदयेशय ज्ञा-नोदधे शंभो विभो महायज्ञ महायाज्ञिक सर्वयज्ञमय सर्वयज्ञहृदय सर्वयज्ञसंस्तुत निराश्रय समुद्रे शय अत्रिसंभव भक्तानुकम्पिन् अभग्नयोग योगधर वासुकिमहामणि विद्योतितविग्रह हरितनयन त्रिलोचन जटाधर नीलकण्ठ चन्द्रा र्धधर उमाशरीरार्धहर गजचर्म-धर दुस्तरसंसारमहासंहारकर प्रसीद भक्तजनवत्सल एवं स्तुतो देवगणैः सुभक्त्या सब्रह्ममुख्यैश्च पितामहेन त्यक्त्वा तदा हस्तिरूपं महात्मा लिङ्गे तदा संनिधानं चकार ३६
इति श्रीवामनपुराणे सरोमाहात्म्ये चतुश्चत्वारिंशत्तमोऽध्यायः

वर्गः:वामनपुराणम्

Page is sourced from

sa.wikisource.org वामनपुराणम्/चतुश्चत्वारिंशत्तमोऽध्यायः