स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २२

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:स्कन्दपुराणम्/माहेश्वरखण्डः/कौमारिकाखण्डः

॥नारद उवाच॥
एवं विप्रकृता देवा महेंद्रसहितास्तदा॥
ययुः स्वायंभुवं दाम मर्करूपमुपाश्रिताः॥ २२.१ ॥

ततश्च विस्मितो ब्रह्मा प्राह तान्सुरपुंगवान्॥
स्वरूपेणेह तिष्ठध्वं नात्र वस्तारकाद्भयम्॥ २२.२ ॥

ततो देवाः स्वरूपस्थाः प्रम्लानवदनांबुजाः॥
तुष्टुवुः प्रणताः सर्वे पितरं पुत्रका यथा॥ २२.३ ॥

नमो जगत्प्रसूत्यै ते हेतवे पालकाय च॥
संहर्त्रे च नमस्तुभ्यं तिस्रोऽवस्थास्तव प्रभो॥ २२.४ ॥

त्वमपः प्रथमं सृष्ट्वा तासु वीर्यमवासृजः॥
तदण्डमभवद्धैमं यस्मिल्लोकाश्चराचराः॥ २२.५ ॥

वेदेष्वाहुर्विराड्‌रूपं त्वामेकरूपमीदृशम्॥
पातालं पादमूलं च पार्ष्णिपादे रसातलम्॥ २२.६ ॥

महातलं चास्य गुल्फौ जंघे चापि तलातलम्॥
सुतलं जानुनी चास्य ऊरू च वितलातले॥ २२.७ ॥

महीतलं च जघनं नाभिश्चास्य नभस्तलम्॥
ज्योतिः पदमुरः स्थानं स्वर्लोको बाहुरुच्यते॥ २२.८ ॥

ग्रीवा महश्चवदनं जनलोकः प्रकीर्त्यते॥
ललाटं च तपोलोकः शीर्ष सत्यमुदाहृतम्॥ २२.९ ॥

चन्द्रसूर्यौ च नयने दिशः श्रोत्रे नासिकाश्विनौ॥
आत्मानं ब्रह्मरंध्रस्थमाहुस्त्वां वेदवादिनः॥ २२.१० ॥

एवं ये ते विराड्‌रूपं संस्मरंत उपासते॥
जन्मबन्धविनिर्मुक्ता यांति त्वां परमं पदम्॥ २२.११ ॥

एवं स्थूलं प्राणिमध्यं च शूक्ष्मं भावेभावे भावितं त्वां गृणंति॥
सर्वत्रस्थं त्वामतः प्राहुर्वेदास्तस्मै तुभ्यं पदम्ज इद्विधेम॥ २२.१२ ॥

एवं स्तुतो विरंचिस्तु कृपयाभिपरिप्लुतः॥
जानन्नपि तदा प्राह तेषामाश्वासहेतवे॥ २२.१३ ॥

सर्वे भवन्तो दुःखार्ताः परिम्लानमुखांबुजाः॥
भ्रष्टायुदास्तथाऽकस्माद्भ्रष्टा भरणवाससः॥ २२.१४ ॥

ममैवयं कृतिर्देवा भवतां यद्वडम्बना॥
यद्वैराजशरीरे मे भवन्तो बाहुसंज्ञकाः॥ २२.१५ ॥

यद्यद्विभूतिमत्सत्त्वं धार्मिकं चोर्जितं महत्॥
तत्रासीद्बाहुनाशो मे बाहुस्थाने च ते मम॥ २२.१६ ॥

तन्नूनं मम भग्नौ च बाहू तेन दुरात्मना॥
येन चोपहृतं देवास्तन्ममाख्यातु मर्हथ॥ २२.१७ ॥

॥देवा ऊचुः॥
योऽसौ वज्रांगतनयस्त्वया दत्तवरः प्रभो॥
भृशं विप्रकृतास्तेन तत्त्वं जानासि तत्त्वतः॥ २२.१८ ॥

यत्तन्महीसमुद्रस्य तटं शार्विकतीर्थकम्॥
तदाक्रम्य कृतं तेन मरुभूमिसमं प्रभोः॥ २२.१९ ॥

ऋद्धयः सर्वदेवानां गृहीतास्तेन सर्वतः॥
महाभूतस्वरूपेण स एव च जगत्पतिः॥ २२.२० ॥

चंद्रसूर्यौ ग्रहास्तारा यच्चान्यद्देवपक्षतः॥
तच्च सर्वं निराकृत्य स्थापितो दैत्यपक्षकः॥ २२.२१ ॥

वयं च विधृता स्तेन बहूपहसितास्तथा॥
प्रसादान्मुक्ताश्च कथंचिदिव कष्टतः॥ २२.२२ ॥

तद्वयं शरणं प्राप्ताः पीडिताः क्षुत्तृषार्दिताः॥
धर्मरक्षा कराश्चेति संचिंत्य त्रातुमर्हसि॥ २२.२३ ॥

इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टितम्॥
सुरानुवाच भगवानतः संचिंत्य तत्त्वतः॥ २२.२४ ॥

अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः॥
यस्य वध्यश्च नाद्यापि स जातो भगवान्पुनः॥ २२.२५ ॥

मया च वरदानेन च्छन्दयित्वा निवारितः॥ २२.२६ ॥

तपसा स हिदीप्तोऽभूत्त्रैलोक्यदहनात्मकः॥
स च वव्रे वधं दैत्यः शिशतः सप्तवासरात्॥ २२.२७ ॥

स च सप्तदिनो बालः शंकराद्यो भविष्यति॥
तारकस्य च वीरस्य वधकर्ता भविष्यति॥ २२.२८ ॥

सतीनामा तु या देवी विनष्टा दक्षहेलया॥
सा भविष्यति कल्याणी हिमाचलशरीरजा॥ २२.२९ ॥

शंकरस्य च तस्याश्च यत्नः कार्यः समागमे॥
अहमप्यस्य कार्यस्य शेषं कर्ता न संशयः॥ २२.३० ॥

इत्युक्तास्त्रिदशास्तेन साक्षात्कलयोनिना॥
जग्मुर्मेरुं प्रणम्येशं मर्करूपेण संवृताः॥ २२.३१ ॥

ततो गतेषु देवेषु ब्रह्मा लोकपितामहः॥
निशां सस्मार भगवान्स्वां तनुं पूर्वसंभवाम्॥ २२.३२ ॥

ततो भगवती रात्रिरुपतस्थे पितामहम्॥
तां विविक्ते समालोक्य तथोवाच विभावरीम्॥ २२.३३ ॥

विभावरि महाकार्यं विबुधानामुपस्थितम्॥
तत्कर्तव्यं त्वया देवि श्रृणु कार्यस्य निश्चयम्॥ २२.३४ ॥

तारकोनाम दैत्येंद्रः सुरकेतुरनिर्ज्जितः॥
तस्याभावाय भगवाञ्जनयिष्यति यं शिवः॥ २२.३५ ॥

सुतः स भविता तस्य तारकस्यांतकारकः॥
अहं त्वादौ यदा जातस्तदापश्यं पुरःस्थितम्॥ २२.३६ ॥

अर्धनारीश्वरं देवं व्याप्य विश्वमवस्थितम्॥
दृष्ट्वा तमब्रुवं देवं भजस्वेति च भक्तितः॥ २२.३७ ॥

ततो नारी पृथग्जाता पुरुषश्च तथा पृथक्॥
तस्याश्चैवांशजाः सर्वाः स्त्रियस्त्रिभुवने स्मृताः॥ २२.३८ ॥

एकादश च रुद्राश्च पुरुषास्तस्य चांशजाः॥
तां नारीमहामालोक्य पुत्रं दक्षमथा ब्रवम्॥ २२.३९ ॥

भजस्व पुत्रीं जगती ममापि च तवापि च॥
पुंदुःखनकात्त्रात्री पुत्री ते भाविनी त्वियम्॥ २२.४० ॥

एवमुक्तो मया दक्षः पुत्रीत्वे परि कल्पिताम्॥
रुद्राय दत्तवान्भक्त्या नाम दत्त्वा सतीति यत्॥ २२.४१ ॥

ततः काले चँ कस्मिंश्चिदवमेने च तां पिता॥
मुमूर्षुः पापसंकल्पो दुरात्मा कुलकज्जलः॥ २२.४२ ॥

ये रुद्रं नैव मन्यंते ते स्फुटं कुलकज्जलाः॥
पिशाचास्ते दुरात्मानो भवंति ब्रह्मराक्षसाः॥ २२.४३ ॥

अवमानेन तस्यापि यथा देवी जहौ तनुम्॥
यथा यज्ञः स च ध्वस्तो भवेन विदितं हि ते'॥ २२.४४ ॥

अधुना हिमशैलस्य भवित्री दुहिता च सा॥
महेश्वरं पतिं सा च पुनः प्राप्स्यति निश्चितम्॥ २२.४५ ॥

तदिदं च त्वया कार्यं मेनागर्भे प्रविश्य च॥
तस्याश्छविं कुरु कृष्णां यथा काली भवेत्तु सा॥ २२.४६ ॥

यदा रुद्रोपहसिता तपस्तप्स्यति सा महत्॥
समाप्तनियमा देवी यदा चोग्रा भविष्यति॥ २२.४७ ॥

स्वयमेव यदा रूपं सुगौरं प्रतिपत्स्यते॥
विरहेण हरश्चास्या मत्वा शून्यं जगत्त्रयम्॥ २२.४८ ॥

तस्यैव हिमशैलस्य कंदरे सिद्धसेविते॥
प्रतीक्षमाणस्तां देवीमुग्रं संतप्स्यते तपः॥ २२.४९ ॥

तयोः सुतप्ततपसोर्भविता यो महान्सुतः॥
भविष्यति स दैत्यस्य तारकस्य निवारकः॥ २२.५० ॥

तपसो हि विना नास्ति सिद्धिः कुत्रापि शोभने॥
सर्वासां कर्मसिद्धीनां मूलं हि तप उच्यते॥ २२.५१ ॥

त्वयापि दानवो देवि देहनिर्गतया तदा॥
चंडमुंडपुरोगाश्च हंतव्या लोकदुर्जयाः॥ २२.५२ ॥

यस्माच्चंडं च मुंडं च त्वं देवि निहनिष्यसि॥
चामुंडेति ततो लोके ख्याता देवि भविष्यसि॥ २२.५३ ॥

ततस्त्वां वरदे देवी लोकः संपूजयिष्यति॥
भेदेर्बहुविधाकारैः सर्वगां कामसाधनीम्॥ २२.५४ ॥
ॐकारवक्त्रां गायत्रीं त्वामर्चंति द्विजोत्तमाः॥
ऊर्जितां बलदां पापि राजानः सुमहाबलाः॥ २२.५५ ॥

वैश्याश्च भूतिमित्येव शिवां शूद्रास्तथा शुभे॥
क्षांतिर्मुनीनामक्षोभ्या दया नियमिनामपि॥ २२.५६ ॥

त्वं महोपाय सन्दोहा नीतिर्नयविसर्पिणाम्॥
परिस्थितिस्त्वमर्थानां त्वमहो प्राणिका मता॥ २२.५७ ॥

त्वं युक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम्॥
रतिस्त्वं रतिचित्तानां प्रीतिस्त्वं हृद्यदर्शिनाम्॥ २२.५८ ॥

त्वं कांतिः शुभरूपाणां त्वं शांति शुभकर्मिणाम्॥
त्वं भ्रांतिर्मूढचित्तानां त्वं फलं क्रतुयाजिनाम्॥ २२.५९ ॥

जलधीनां महावेला त्वं च लीला विलासिनाम्॥
संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनी॥ २२.६० ॥

त्वं कालरात्रिर्निःशेष भुवनावलिनाशिनी॥
प्रियकंठग्रहानन्ददायिनी त्वं विभावरी॥ २२.६१ ॥

प्रसीद प्रणतानस्मान्सौम्यदृष्ट्या विलोकय॥ २२.६२ ॥

इति स्तुवंतो ये देवि पूजयिष्यंति त्वां शुभे॥
ते सर्वकामानाप्स्यंति नियता नात्र संशयः॥ २२.६३ ॥

इत्युक्ता तु निशादेवी तथेत्युक्त्वा कृताञ्जलिः॥
जगाम त्वरिता पूर्वं गृहं हिमगिरेर्महत्॥ २२.६४ ॥

तत्राऽऽसीनां महाहर्म्ये रत्नभित्तिसमाश्रये॥
ददर्श मेनामापांडुच्छविवक्त्रसरोरुहाम्॥ २२.६५ ॥

किंचिच्छयाममुखोदग्रस्तनभागावनामिताम्॥
महौषधिगणबद्धमंत्रराजनिषेविताम्॥ २२.६६ ॥

ततः किंचित्प्रमिलिते मेनानेत्रांबुजद्वये॥
आविवेशमुखं रात्रिर्ब्रह्मणो वचनात्तदा॥ २२.६७ ॥

जन्मदाया जगन्मातुः क्रमेण जठरांतरम्॥
अरंजयच्छविं देव्या गुहमातुर्विभावरी॥ २२.६८ ॥

ततो जगन्मं गलदा मेना हिमगिरेः प्रिया॥
ब्राह्मे मुहूर्ते सुभगे प्रासूयत शुभाननाम्॥ २२.६९ ॥

तस्यां तु जायमानायां जंतवः स्थाणुजंगमाः॥
अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः॥ २२.७० ॥

अभवत्क्रूरसत्त्वानां चेतः शांतं च देहिनाम्॥
ज्योतिषामपि तेजस्त्वमभवत्सुतरां तदा॥ २२.७१ ॥

वनाश्रिताश्चौषधयः स्वादवंति फलानि च॥
गंधवंति च माल्यानि विमलं च नभोऽभवत्॥ २२.७२ ॥

मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः॥
विस्मृता नि च शास्त्राणि प्रादुर्भावं प्रपेदिरे॥ २२.७३ ॥

प्रभावस्तीर्थमुख्यानां तदा पुण्यतमोऽभवत्॥
सत्ये धर्मे चाध्ययने यज्ञे दाने तपस्यपि॥ २२.७४ ॥

सर्वेषामभवच्छ्रद्धा जन्मकाले गुहारणेः॥
अंतरिक्षेमराश्चापि प्रहर्षोत्फुल्ललोचनाः॥ २२.७५ ॥

हरिब्रह्ममहेंद्रार्कवायुवह्निपुरोगमाः॥
पुष्पवृष्टिं प्रमुमुचुस्तस्मिन्मेनागृहे शुभे॥ २२.७६ ॥

मेरुप्रभृतयश्चापि मूर्तिमंतो महानगाः॥
तस्मिन्महोत्सवे प्राप्ता वीरकांस्योपशोभिताः॥ २२.७७ ॥

सागराः सरितश्चैव समाजग्मुश्च सर्वशः॥ २२.७८ ॥

हिमशैलोऽभवल्लोके तदा सर्वैश्चराचरैः॥
सेव्यश्चाप्यभिगम्यश्च पूजनीयश्च भारत॥ २२.७९ ॥

अनुभूयोत्सवं ते च जग्मुः स्वानालयांस्तदा॥ २२.८० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कुमारेश माहात्म्ये पार्वतीजन्मवर्णनंनाम द्वाविंशोऽध्यायः॥ २२ ॥ छ ॥

वर्गः:कौमारिकाखण्डः

Page is sourced from

sa.wikisource.org स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २२