स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०८

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:स्कन्दपुराणम्/माहेश्वरखण्डः/कौमारिकाखण्डः

॥नारद उवाच॥
नाडीजंघबकेनोक्तां वाचमाकर्ण्यभूपतिः॥
मार्कंडेयेन संयुक्तो बभूवातीव दुःखितः॥ ८.१ ॥
तं निशम्य मुनिर्भूपं दुःखितं साश्रुलोचनम्॥
समानव्यसनः प्राह तदर्थं स पुनर्बकम्॥ ८.२ ॥
विधायाशां महाभाग त्वदंतिकमुपागतौ॥
आवां चिरायुर्ज्ञातांशाविन्द्रद्युम्नमिति द्विज॥ ८.३ ॥
निष्पन्नं नास्य तत्कार्यं प्राणानेष मुमुक्षति॥
वह्निप्रवेशेन परं वैराग्यं समुपागतः॥ ८.४ ॥
तन्मामुपागतोऽहं च त्वां सिद्धं नास्य वांछितम्॥
तदेनमनुयास्यामि मरणेन त्वया शपे॥ ८.५ ॥
आशां कृत्वाभ्युपायातं निराशं नेक्षितुं क्षमाः॥
भवंति साधवस्तस्माज्जीवितान्मरणं वरम्॥ ८.६ ॥
प्रार्थितं चामुना हृत्स्थं मया चास्मै प्रतिश्रुतम्॥
त्वां मित्रं तत्परिज्ञाने धृत्वा हृदि चिरायुषम्॥ ८.७ ॥
असंपादयतो नार्थं प्रतिज्ञातं ममायुषा॥
कलुषेणार्थिना माशापूरकेण सखेधुना॥ ८.८ ॥
प्रतिश्रुतं कृतं श्लाघ्या दासतांत्यजपक्वणे॥
हरिश्चंद्रस्येव नृणां न श्लाघ्या सत्यसंधता॥ ८.९ ॥
मित्रस्नेहस्य पर्यायस्तच्च साप्तपदं स्मृतम्॥
स्नेहः स कीदृशो मित्रे दुःखितो यो न दृश्यते॥ ८.१० ॥
तदवश्यमहं साकमधुना वह्निसाधनम्॥
करिष्ये कीर्तिवपुषः कृते सत्यमिदं सखे॥ ८.११ ॥
अनुजानीहि मामेतद्दर्शनं तव पश्चिमम्॥
त्वया सह महाभाग नाडीजंघ द्विजोत्तम॥ ८.१२ ॥
॥नारद उवाच॥
वज्रवद्दुःसहां वाचं मार्कंडेयसमीरिताम्॥
शुश्रुवान्स क्षणं ध्यात्वा प्रतीतः प्राह तावुभौ॥ ८.१३ ॥
॥नाडीजंघ उवाच॥
यद्येवं तदिदं मित्रं विशंतं ज्वलनेऽधुना॥
निवारय मुनिश्रेष्ठ मत्तोऽस्ति चिरजीवितः॥ ८.१४ ॥
प्राकारकर्णनामासावुलूकः शिवपर्वते॥
स ज्ञास्यति महीपालमिंद्रद्युम्नं न संशयः॥ ८.१५ ॥
तस्मादहं त्वया सार्धममुना च शिवालयम्॥
व्रजामि तं शिखरिणं मित्रकार्यप्रसिद्धये॥ ८.१६ ॥
इत्येव मुक्त्वा ते जग्मुस्त्रयोऽपि द्विजपुंगवाः॥
कैलासं ददृशुस्तत्र तमुलूकं स्वनीडगम्॥ ८.१७ ॥
कृतसंविदसौ तेन बकः स्वागतपूजया॥
पृष्टश्च तावुभौ प्राह तत्सर्वमभिवांछितम्॥ ८.१८ ॥
चिरायुरसि जानीषे यदीन्द्रद्युम्नभूपतिम्॥
तद्ब्रूहि तेन ज्ञानेन कार्यं जीवामहे वयम्॥ ८.१९ ॥
इति पृष्टः स विमना मित्रकार्यप्रसाधनात्॥
कौशिकः प्राह जानामि नेन्द्रद्युम्नमहं नृपम्॥ ८.२० ॥
अष्टाविंशत्प्रमाणा मे कल्पा जातस्य भूतले॥
न दृष्टो न श्रुतो वासाविंद्रद्युम्नो नृपः क्षितौ॥ ८.२१ ॥
तच्छ्रुत्वा विस्मितो भूपस्तस्यायुरतिमात्रतः॥
दुःखितोऽपि तदा हेतुं पप्रच्छासौ तदायुषः॥ ८.२२ ॥
एवमायुर्यदि तव कथं प्राप्तं ब्रवीहि तत्॥
उलूकत्वं कथमिदं जुगुप्सितमतीव च॥ ८.२३ ॥
॥प्राकारकर्ण उवाच॥
श्रृणु भद्र यथा दीर्घमायुर्मेशिवपूजनात्॥
जुगुप्सितमुलूकत्वं शापेन च महामुनेः॥ ८.२४ ॥
वसिष्ठकुलसंभूतः पुराहमभवं द्विजः॥
घंट इत्यभिविख्यातो वाराणस्यां शिवेरतः॥ ८.२५ ॥
धर्मश्रवणनिष्ठस्य साधूनां संसदि स्वयम्॥
श्रुत्वास्मि पूजयामीशं बिल्वपत्रैरखंडितैः॥ ८.२६ ॥
न मालती न मंदारः शतपत्रं न मल्लिका॥
तथा प्रियाणि श्रीवृक्षो यथा मदनविद्विषः॥ ८.२७ ॥
अखंडबिल्वपत्रेण एकेन शिवमूर्धनि॥
निहितेन नरैः पुण्यं प्राप्यते लक्षपुष्पजम्॥ ८.२८ ॥
अखंडितैर्बिल्वपत्रैः श्रद्धया स्वयमाहृतैः॥
लिंगप्रपूजनं कृत्वा वर्षलक्षं वसेद्दिवि॥ ८.२९ ॥
सच्छास्त्रेभ्य इति श्रुत्वा पूजयाम्यहमीश्वरम्॥
त्रिकालं श्रद्धया पत्रैः श्रीवृक्षस्य त्रिभिस्त्रिभिः॥ ८.३० ॥
ततो वर्षशतस्यांते तुतोष शशिशेखरः॥
प्रत्यक्षीभूय मामाह मेघगंभीरया गिरा॥ ८.३१ ॥
॥ईश्वर उवाच॥
तुष्टोस्मि तव विप्रेंद्राखंडबिल्वदलार्चनात्॥
वृणीष्वाभिमतं यत्ते दास्यम्यपि च दुर्लभम्॥ ८.३२ ॥
अखंडबिल्वपत्रेण महातुष्टिः प्रजायते॥
एकनापि यथान्येषां तथा न मम कोटिभिः॥ ८.३३ ॥
इत्युक्तोऽहं भगवता शंभुना स्वमनः स्थितम्॥
वृणोमि स्म वरं देव कुरु मामजरामरम्॥ ८.३४ ॥
अथ लीलाविलासो मां तथेत्युक्त्वाऽविचारितम्॥
ययावदर्शनं प्रीतिमहं च महतीं गतः॥ ८.३५ ॥
कृतकृत्यं तदात्मानमज्ञासिपमहं क्षितौ॥
एतस्मिन्नेव काले तु भृगुवंश्योऽभवद्द्विजः॥ ८.३६ ॥
अवदातत्रिजन्मासवक्षविच्चाक्षरार्थवित्॥
सुदर्शनेति प्रथिता प्रिया तस्याभवत्सती॥ ८.३७ ॥
अतीव मुदिता पत्युर्मुखं प्रेक्ष्यास्य दर्शनात्॥
तनया देवलस्यैपा रूपेणाप्रतिमा भुवि॥ ८.३८ ॥
तस्यां तस्मादभूत्कन्या निर्विशेषा निजारणेः॥
निवृत्तबालभावाभूत्कुमारी यौवनोन्मुखी॥ ८.३९ ॥
नालं बभूव तां दातुं तनयां गुणशालिनीम्॥
कस्यापि जनकः सा च वयःसंधौ मयेक्षिता॥ ८.४० ॥
प्रविश्द्यौवनाभोगभावैरतिमनोहरा॥
निर्वास्यमानैरपरैस्तिलतंदुलिताकृतिः॥ ८.४१ ॥
क्रीडमाना वयस्याभिर्लावण्यप्रतिमेव सा॥
व्यचिंतयमहं विप्र तां निरीक्ष्य सुमध्यमाम्॥ ८.४२ ॥
अनन्याकृतिमन्योऽसौ विधिर्येनेति निर्मिता॥
ततः सात्त्विकभावानां तत्क्षणादस्मि गोचरम्॥ ८.४३ ॥
प्रापितो लीलयाहत्य बाणैः कुसुमधन्विना॥
ततो मया स्खलद्वालं पृष्टा कस्येति तत्सखी॥ ८.४४ ॥
प्राहेति भृगुवंश्यस्य कन्येयं द्विजजन्मनः॥
अनूढाद्यापि केनापि समायातात्र खेलितुम्॥ ८.४५ ॥
ततः कुसुमबाणेन शरव्रातैर्भृशं हतः॥
पितरं प्रणतो गत्वा ययाचे तां भृगूद्वहम्॥ ८.४६ ॥
 स च मां सदृशं ज्ञात्वा शीलेन च कुलेन च॥
अतीव चार्थिनं मह्यं ददौ वाचा पुरः क्रमात्॥ ८.४७ ॥
ततः सा तनया तस्य भार्गवस्या श्रृणोदिति॥
दत्तास्मि तस्मै विप्राय विरूपायेति जल्पताम्॥ ८.४८ ॥
रोरूयमाणा जननीमाह पश्य यथा कृतम्॥
अतीवानुचितं दत्त्वा जनकेन तथा वरे॥ ८.४९ ॥
विषमालोड्य पास्यामि प्रवेक्ष्यामि हुताशनम्॥
वरं न तु विरूपस्योद्वोढुर्भार्या कथंचन॥ ८.५० ॥
ततः संबोध्य जननी तां सुतामाह भार्गवम्॥
न देयास्मै त्वया कन्या विरूपायेति चाग्रहात्॥ ८.५१ ॥
स वल्लभावचः श्रुत्वा धर्मशास्त्राण्यवेक्ष्य च॥
दत्तामपि हरेत्पूर्वां श्रेयांश्चेद्वर आव्रजेत्॥ ८.५२ ॥
अर्वाक्छिलाक्रमणतो निष्ठा स्यात्सप्तमे पदे॥
इति व्यवस्य प्रददावन्यस्मै तां द्विजः सुताम्॥ ८.५३ ॥
श्वोभाविनि विवाहे तु तच्च सर्वं मया श्रुतम्॥
ततोतीव विलक्ष्योहं वयस्यानां पुरस्तदा॥ ८.५४ ॥
नाशकं वदनं भद्र तथा दर्शयितुं निजम्॥
कामार्तोतीव तां सुप्तामर्वाग्निशि तदाहरम्॥ ८.५५ ॥
नीत्वा दुर्गतमैकांतेऽकार्षमौद्वाहिकं विधिम्॥
गांधर्वेण विवाहेन ततोऽकार्षं हृदीप्सितम्॥ ८.५६ ॥
अनिच्छंतीं तदा बालां बलात्सुरतसेवनम्॥
अथानुपदमागत्य तत्पिता प्रातरेव माम्॥ ८.५७ ॥
निश्वस्य संवृतो विप्रास्तां वीक्ष्योद्वाहितां सुताम्॥
शशाप कुपितो भद्र मां तदानीं स भार्गवः॥ ८.५८ ॥
॥भार्गव उवाच॥
निशाचरस्य धर्मेण यत्त्वयोद्वाहिता सुता॥
तस्मान्निशाचरः पाप भव त्वमविलंबितम्॥ ८.५९ ॥
इति शप्तः प्रण्म्यैनं पादोपग्रहपूर्वकम्॥
हाहेति च ब्रुवन्गाढं साश्रुनेत्रं सगद्गदम्॥ ८.६० ॥
ततोहमब्रवं कस्माददोषं मां भवानिति॥
शपते भवता दत्ता मम वाचा पुरा सुता॥ ८.६१ ॥
सोद्वाहिता मया कन्या दानं सकृदिति स्मृतिः॥
सकृज्जल्पंति राजानः सकृज्जल्पंति पण्डिताः॥ ८.६२ ॥
सकृत्कन्याः प्रदीयंते त्रीण्येतानि सकृत्सकृत्॥
किं च प्रतिश्रुतार्थस्य निर्वाहस्तत्सतां व्रतम्॥ ८.६३ ॥
भवादृशानां साधूनां साधूनां तस्य त्यागो विगर्हितः॥
प्रतिश्रुता त्वया लब्धा तदा कालमियं मया॥ ८.६४ ॥
उद्वोढा चाधुना नाहमुचितः शापभाजनम्॥
वृथा शपन्ति मह्यं च भवंतस्तद्विचार्यताम्॥ ८.६५ ॥
यो दत्त्वा कन्यकां वाचा पश्चाद्धरति दुर्मतिः॥
स याति नरकं चेति धर्मशास्त्रेषु निश्चितम्॥ ८.६६ ॥
तदाकर्ण्य व्यवस्यासौ तथ्यं मद्वचनं हृदा॥
पश्चात्तापसमोपेतो मुनिर्मामित्यथाब्रवीत्॥ ८.६७ ॥
न मे स्यादन्यथा वाणी उलूकस्त्वं भविष्यति॥
निशाचरो ह्युलूकोऽपि प्रोच्यते द्विजसत्तम॥ ८.६८ ॥
यदेंद्रद्युम्नविज्ञाने सहायस्तंव भविष्यसि॥
तदा त्वं प्रकृतिं विप्र प्राप्स्यसीत्यब्रवीत्स माम्॥ ८.६९ ॥
तद्वाक्यसमकालं च कौशिकत्वमिदं मम॥
एतावंति दिनान्यासीदष्टाविंशद्दिनं विधेः॥ ८.७० ॥
बिल्वीदलौरिति पुरा शशिशेखरस्य संपूजनेन मम दीर्घतरं किलायुः॥
संजातमत्र च जुगुप्सितमस्य शापात्कैलासरोधसि निशाचररूपमासीत्॥ ८.७१ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां माहेश्वरखण्डे कौमारिकाखण्डे महीनदीप्रादुर्भावे बिल्वदलमाहात्म्यवर्णनंनामाष्टमोऽध्यायः॥ ८ ॥ छ ॥

वर्गः:कौमारिकाखण्डः

Page is sourced from

sa.wikisource.org स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०८