वायुपुराणम्/पूर्वार्धम्/अध्यायः ४७

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:वायुपुराणम्/पूर्वार्धम्

।।सूत उवाच।।
सव्ये हिमवतः पार्श्वे कैलासो नाम पर्वतः।
तस्मिन्निवसति श्रीमान् कुबेरः सह राक्षसैः।
अप्सरोगणसंयुक्तो मोदते ह्यलकाधिपः ।। ४७.१ ।।

कैलासपादात् सम्भूतं पुण्यं शीत जलं शुभम्।
मन्दं नाम्ना कुमुद्वन्तं शरदम्बुदसन्निभम् ।। ४७.२ ।।

तस्माद्दिव्या प्रभवति नदी मन्दाकिनी शुभा।
दिव्यञ्च नन्दनं तत्र तस्यास्तीरे महद्वनम् ।। ४७.३ ।।

प्रागुत्तरेण कैलासाद्दिव्यसत्त्वौषधं गिरिम्।
सुरधातुमयं चित्रं सुवर्णं पर्वतं प्रति ।। ४७.४ ।।

चन्द्रप्रभो नाम गिरिः सशुद्धां रत्नसन्निभः।
तस्य पादे महद्दिव्यमच्छोदं नाम तत्सरः ।। ४७.५ ।।

तस्माद्दिव्या प्रभवति ह्यच्छोदा नाम निम्नगा।
तस्यास्तीरे महादिव्यं वनं चैत्ररथं स्मृतम् ।। ४७.६ ।।

तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः।
यक्षसेनापतिः क्रूरगुह्यकैः परिवारितः ।। ४७.७ ।।

पुण्या मन्दाकिनी चैव निम्नगाच्छोदिका तथा।
महीमण्डलमध्येन प्रविष्टे ते महोदधिम् ।। ४७.८ ।।

कैलासाद्दक्षिणप्राच्यां शिवसत्त्वौषधिं गुरुम् ।
मनःशिलामयं दिव्यं पिशङ्गं पर्वतं प्रति ।। ४७.९ ।।

लोहितो हेमश्रृङ्गस्तु गिरिः सूर्य प्रभो महान्।
तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ।। ४७.१० ।।

तस्मात् पुण्यः प्रभवति लौहित्यः सदनो महान्।
देवारण्यं विशोकञ्च तस्य तीरे महावनम् ।। ४७.११ ।।

तस्मिन् गिरौ निवसति यक्षो मणिवरो वशी।
सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः ।। ४७.१२ ।।

कैलासाद्दक्षिणे पार्श्वे क्रूरसत्वौषधं गिरिम्।
वृत्रकायात् किलोत्पन्नमञ्जनं त्रिककुत्प्रति ।। ४७.१३ ।।

सर्वधातुमयस्तत्र सुमहान् वैद्युतो गिरिः।
तस्य पादे सरः पुण्यं मानसं सिद्धसेवितम् ।। ४७.१४ ।।

तस्मात् प्रभवते पुण्या सरयूर्लोकभावनी।
तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ।। ४७.१५ ।।

कुबेरानुचरस्तत्र प्रहेतृतनयो वशी।
ब्रह्म पातो निवसति राक्षसोऽनन्तविक्रमः।
अन्तरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ।। ४७.१६ ।।

अपरेण तु कैलासान्मुख्यसत्त्वौषधिं गिरिम्।
अरुणं पर्वतश्रेष्ठं रुक्मधातुमयं प्रति ।। ४७.१७ ।।

भवस्य दयितः श्रीमान् पर्वतो मेघसन्निभः।
शातकुम्भमयैः शुभ्रैः शिलाजालैः समावृतः ।। ४७ .१८ ।।

शतसङ्ख्यैस्तापनीयैः श्रृङ्गैर्दिवमिवोल्लिखन्।
मुञ्जवान् स महादिव्यो दुर्गशैलो हिमार्चितः ।। ४७.१९ ।।

तस्मिन् गिरौ निवसति गिरिशो धूम्रलोहितः।
तस्य पादात् प्रभवति शैलोदं नाम तत्सरः ।। ४७.२० ।।

तस्मात् प्रभवते हिव्या शैलोदा नाम निम्नगा।
सा चक्षुःशीतयोर्मध्ये प्रविष्टा लवणोदधिम् ।। ४७.२१ ।।

तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै।
अस्त्युत्तरेण कैलासाच्छिवसत्त्वौषधो गिरिः ।। ४७.२२ ।।

गौरो नाम गिरिस्तत्र हरितालमयः शुभः।
हिरण्यश्रृङ्गः सुमहान् दिव्यो मणिमयो गिरिः ।। ४७.२३ ।।

तस्य पादे महद्दिव्यं शुभं काञ्चनवालुकम्।
रम्यं बिन्दुसरो नाम यत्र यातो भगीरथः ।। ४७.२४ ।।

गङ्गानिमित्तं राजर्षिरुवास बहुलाः समाः ।
दिवं यास्यन्ति मे पूर्वे गङ्गातोयपरिप्लुताः ।। ४७.२५ ।।

तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता।
सोमपादप्रसूता सा सप्तधा प्रतिपद्य ते ।। ४७.२६ ।।

यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः ।
तत्रेष्ट्वा तु गतः शर्वं शक्रः सर्वैः सुरैः सह ।। ४७.२७ ।।

दिविच्छायापथो यस्तु अनुनक्षत्रमण्डलम् ।
दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ।। ४७.२८ ।।

अन्तरिक्षं दिवञ्चैव भावयन्ती भुवङ्गता।
भवोत्तमाङ्गे पतिता संरुद्धा योगमायया ।। ४७.२९ ।।

तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिताः क्षितौ।
कृतं बिन्दुसरस्तत्र ततो बिन्दुसरः स्मृतम् ।। ४७.३० ।।

ततो निरुद्धा देवी सा भवेन स्मयता किल।
चिन्तयामास मनसा शङ्करक्षेपणं प्रति ।। ४७.३१ ।।

भित्त्वा विशामि पातालं स्रोतसा गृह्य शङ्करम्।
ज्ञात्वा तस्या अभिप्रायं क्रूरं देव्या चिकीर्षितम् ।। ४७.३२ ।।

तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम्।
तस्यावलेपं तं बुद्ध्वा नद्याः क्रुद्धस्तु शङ्करः।
निरुध्य तु शिरस्येनां वेगेन पतितां भुवि ।। ४७.३३ ।।

एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः।
धमनीसन्ततं क्षीणं क्षुधापरिगतेन्द्रियम् ।। ४७.३४ ।।

अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव हि।
बुद्ध्वास्य वरदानं तु कोपं नियतवांस्तु सः ।। ४७.३५ ।।

ब्रह्मणो हि वचः श्रुत्वा प्रतिज्ञाधारणं प्रति।
ततो विसर्जयामास संरुद्धां स्वेन तेजसा।
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ।। ४७.३६ ।।

ततो विसृज्यमानायाः स्रोतस्तत्सप्तताङ्गतम्।
त्रयः प्राचीमभिमुखं प्रतीचीं त्रयः एव तु ।। ४७.३७ ।।

नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा।
नलिनी ह्रादिनी चैव पावनी चैव प्राग्गता ।। ४७.३८ ।।

सीता चक्षुश्च सिन्धुश्च प्रतीचीं दिशमाक्षिताः।
सप्तमी त्वनुगा तासां दक्षिणेन भगीरथी ।। ४७.३९ ।।

तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम्।
सप्तैता भावयन्तीह हिमाह्वं वर्षमेव तु ।। ४७.४० ।।

प्रसूताः सप्त नद्यस्ताः शुभा बिन्दुसरोद्भवाः।
नानादेशान् भावयन्त्यो म्लेच्छप्रायांश्च सर्वशः ।। ४७.४१ ।।

उपगच्छन्ति ताः सर्वा यतो वर्षति वासनः।
सिरिन्ध्रान् कुन्तलांश्चीनान् बर्भरान् यवसान् द्रुहान् ।। ४७.४२ ।।

रुषाणांश्च कुणिन्दांश्च अङगलोकवराश्च ये।
कृत्वा द्विधा सिन्धुमरुं सीतागात्पश्चिमोदधिम् ।। ४७.४३ ।।

अथ चीनमरूंश्चैव नङ्गणान् सर्वमूलिकान् ।
साध्रांस्तु षारांस्तम्पाकान् पह्नवान् दरदान् शकान्।
एतान् जनपदान् चक्षुः स्रावयन्ती गतोदधिम् ।। ४७.४४ ।।

दरदांश्च सकांश्मीरान् गान्धारान् वरपान् ह्रदान्।
शिवपौरानिन्द्रहासान् वदातींश्च विसर्जयान् ।। ४७.४५ ।।

सैन्धवान् रन्ध्रकरकान् भ्रमराभीररोहकान् ।
शुनामुखांश्चोर्द्ध्वमनून् सिद्धचारणसोवितान् ।। ४७.४६ ।।

गन्धर्वान् किन्नरान् यक्षान् रक्षोविद्याधरोरगान्।
कलापग्रामकांश्चैव पारदान् सीगणान् खसान् ।। ४७.४७ ।।

किरातांश्च पुलिन्दांश्च कुरून् सभरतानपि।
पञ्चालकाशिमात्स्यांश्च मगधाङ्गांस्तथैव च ।। ४७.४८ ।।

ब्रह्मोत्तरांश्च वङ्गांश्च तामलिप्तांस्तथैव च।
एतान् जनपदानार्यान् गङ्गा भावयते शुभान् ।। ४७.४९ ।।

ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोददिम्।
ततक्ष्वाह्लादिनी पुण्या प्राचीनाभिमुखी ययौ ।। ४७.५० ।।

प्लावयन्त्युपभोगांश्च निषादानां च जातयः।
धीवरानृषिकांश्चैव तथा नीलमुखानपि ।। ४७.५१ ।।

केरलानुष्ट्रकर्णांश्च किरातानपि चैव हि।
कालोदरान् विवर्णांश्च कुमारान् स्वर्णभूषितान् ।। ४७.५२ ।।

सा मण्डले समुद्रस्य तिरोभूताऽनुपूर्वतः।
ततस्तु पावनी चैव प्राचीमेव दिशङ्गता ।। ४७.५३ ।।

अपथान् भावयन्तीह इन्द्रद्युम्नसरोऽपि च।
तता खरथांश्चैव इन्द्रशङ्कुपथानपि ।। ४७.५४ ।।

मध्येनोद्यानमस्कारान् कुथप्रावरणान् ययौ।
इन्द्रद्वीपसमुद्रे तु प्रविष्टा लवणोदधिम् ।। ४७.५५ ।।

ततश्च नलिनी चागात् प्राचीमाशां जवेन तु।
तोमरान् भावयन्तीह हंसमार्गान् सहूहुकान् ।। ४७.५६ ।।

पूर्वान् देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरीन्।
कर्णप्रावरणांश्चैव प्राप्य चाश्वमुखानपि ।। ४७.५७ ।।

सिकतापर्वतमरून् गत्वा विद्याधरान् ययौ।
नेमिमण्डलकोष्ठे तु प्रविष्टा सा महोदधिम् ।। ४७.५८ ।।

तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः।
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ।। ४७.५९ ।।

वस्वोकसायास्तीरे तु वारिसुरभिविश्रुते।
हरिश्रृङ्गे तु वसति विद्वान् कौबैरको वशी ।। ४७.६० ।।

यज्ञोपेतः स सुमहानमितौजाः सुविक्रमः।
तत्रागस्त्यैः परिवृतो विद्वद्भिर्ब्रह्मराक्षसैः।
कुबैरानुचराः ह्येते चत्वारस्तत्समाः स्मृताः ।। ४७.६१ ।।

एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम्।
परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः ।। ४७.६२ ।।

हेमकूटस्य पॄष्ठे तु सायनं नाम तत्सरः।
मनस्विनी प्रभवति तस्माज्ज्योतिष्मती च सा ।। ४७.६३ ।।

अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ ।
सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ।। ४७.६४ ।।

तस्माद्द्वयं प्रभवति गान्धर्वी नन्वली च या।
मेरोः पश्चात् प्रभवति ह्रदश्चन्द्रप्रभो महान् ।। ४७.६५ ।।

तत्र जाम्बूनदी पुण्या यस्यां जाम्बूनदं शुभम्।
पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत् ।। ४७.६६ ।।

पुण्डरीकापयोदा च तस्मान्नद्यौ विनिर्गते।
श्वेतात् प्रभवते पुण्यं सरस्तूत्तरमानसम् ।। ४७.६७ ।।

ज्योत्स्ना च मृगकान्ता च तस्माद्द्वे संबभूवतुः।
मधुमत्सरः पुण्यञ्च पझमीनद्विजाकुलम् ।। ४७.६८ ।।

कल्पवृक्षसमाकीर्णं मधुवत्सर्वतः सुखम्।
रुद्रकान्तमिति ख्यातं निर्मितं तद्भवेन तु ।। ४७.६९ ।।

अन्ये चाप्यत्र विख्याताः पझमीनद्विजाकुलाः।
नाम्ना रुद्राजया नाम द्वादशोदधिसन्निभाः ।। ४७.७० ।।

तेभ्यः शान्ता च माध्वी च द्वे नद्यौ सम्बभूवतुः।
यनि किम्पुरुषाद्यानि तेषु देवो न वर्षति ।। ४७.७१ ।।

उद्भिद्यान्युदकान्यत्र प्रवहन्ति सरिद्वराः।
ऋषभो दुन्दुभिश्चैव धूम्रश्चैव महागिरिः ।। ४७.७२ ।।

पूर्वायता महभागा निम्नगा लवणाम्भसि।
चन्द्रकङ्कस्तथा प्राणो महानग्निः शिलोच्चयः।
उदग्याता उदीच्यान्ता अवगाढा महोदधिम् ।। ४७.७३ ।।

सोमकश्च वराहश्च नारदश्च महीधरः।
प्रतीचीमायतास्ते वै प्रविष्टा लवणोदधिम् ।। ४७.७४ ।।

चक्रो बलाहकश्चैव मैनाकश्चैव पर्वतः।
आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति।
चन्द्रमैनाकयोर्मध्येविदिशं दक्षिणां प्रति ।। ४७.७५ ।।

तत्र संवर्त्तको नाम सोऽग्निः पिबति तज्जलम्।
नाम्ना समुद्रपः श्रीमानौर्वः स वडवामुखः ।। ४७.७६ ।।

द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम्।
महेन्द्रभयवित्रस्ताः पक्षच्छेदभयात्तदा।
यदेतदॄश्यते चन्द्रे श्वेते कृष्णशशाकृतिः ।। ४७.७७ ।।

भारतस्य तु वर्षस्य भेदास्ते नव कीर्तिताः।
इहोदितस्य दृश्यन्ते तथान्येऽन्यत्र नोदिते ।। ४७.७८ ।।

उत्तरोत्तरमेतेषां वर्षमुद्दिश्यते गुणैः।
आरोग्यायुः प्रमाणाभ्यां धर्मतः कामतोऽर्थतः ।। ४७.७९ ।।

समन्वितानि भूतानि गुणै रेतैस्तु भागतः।
वसन्ति नानाजातीनि तेषु वर्षेषु तानि वै।
इत्येषाऽधारयत् सर्वं पृत्वी विश्वं जगत्स्थिता ।। ४७.८० ।।

इति महापुराणे वायु प्रोक्ते भुवनविन्यासो नाम सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।

वर्गः:वायुपुराणम्/पूर्वार्धम्

Page is sourced from

sa.wikisource.org वायुपुराणम्/पूर्वार्धम्/अध्यायः ४७