वायुपुराणम्/उत्तरार्धम्/अध्यायः २

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.


Template:वायुपुराणम्/उत्तरार्धम्

      ।। उत्तरार्द्धम् - २	

।।सूत उवाच ।।
आसीदियं समुद्रान्ता मेदिनीति परिश्रुता।
वसु धारयते यस्माद्वसुधा तेन चोच्यते ।। २.१ ।।
मधुकैटभयोः पूर्वं मेदसा संपरिप्लुता।
ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ।। २.२ ।।
इयञ्चासीत् समुद्रान्ता मेदिनीति परिश्रुता।
दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ।। २.३ ।।
प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा।
सस्याकरवती राज्ञा पत्तनाकरमालिनी।
चातुर्वर्ण्यसमाकीर्णा रक्षिता तेन धीमता ।। २.४ ।।
एवंप्रभावो राजासीद्वैन्यः स नृपसत्तमः।
नमस्यश्चैव पूज्यश्च भूतग्रामेण सर्वशः ।। २.५ ।।
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः।
पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ।। २.६ ।।
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः।
आदिराजा न मस्कार्यः पृथुर्वैन्यः प्रतापवान् ।। २.७ ।।
योधैरपि च संग्रामे प्रार्थयानैर्जयं युधि।
आदिकर्त्ता नराणां वै नमस्यः पृथुरेव हि ।। २.८ ।।
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम्।
स घोररूपे संग्रामे क्षेमी तरति कीर्तिमान् ।। २.९ ।।
वैश्यैरपि च राजर्षिर्वैश्यवृत्तिसमास्थितैः।
पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ।। २.१० ।।
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च।
पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ।। २.११ ।।
ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना।
वायुं कृत्वा तदा वत्सं बीजानि वसुधातले ।। २.१२ ।।
ततः स्वायम्भुवे पूर्वन्तदा मन्वन्तरे पुनः।
वत्सं स्वायम्भुवं कृत्वा दुग्धा ग्रीष्मेण वै मही ।। २.१३ ।। *
मनौ स्वारोचिषे दुग्धा मही चैत्रेण धीमता।
मनुं स्वारोचिषं कृत्वा वत्सं सस्यानि वै पुरा ।। २.१४ ।।
उत्तमेऽनुत्तमेनापि दुग्धा देवभुजेन तु ।
मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता ।। २.१५ ।।
पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः।
दुग्धेयं तामसं वत्सं कृत्वा तु बलबन्धुना ।। २.१६ ।।
चारिष्णवस्य देवस्य संप्राप्ते चान्तरे मनोः।
दुग्धा मही पुराणेन वत्सञ्चारिष्णवं प्रति ।। २..१७ ।।
चाक्षुषेऽपि च सम्प्राप्ते तदा मन्वन्तरे पुनः।
दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् ।। २.१८ ।।
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ।
वैन्येनेयं मही दुग्धा यथा ते कीर्तितं मया ।। २.१९ ।।
एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै।
देवादिभिर्मनुष्यैश्च तथा भूतादिभिश्च या ।। २.२० ।।
एवं सर्वेषु विज्ञेया ह्यतीतानागतेष्विह।
देवा मन्वन्तरेष्वस्य पृथोस्तु श्रृणुत प्रजाः ।। २.२१ ।।
पृथोस्तु पुत्रौ विक्रान्तौ जज्ञातेऽन्तर्द्धिपालिनौ।
शिखण्डिनी हविर्द्धानमन्तर्द्धानाद्व्यजायत ।। २.२२ ।।
हविर्द्धानात्षडाग्नेयी धिषणाऽजनयत्सुतान्।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ।। २.२३ ।।
प्राचीनबर्हिर्भगवान् महानासीत् प्रजापतिः।
बलुश्रुततपोवीर्यैः पृथिव्यामेकराढसौ।
प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीन बर्ह्यसौ ।। २.२४ ।।
समुद्रतनयायान्तु कृतदारः स वै प्रभुः।
महतस्तमसः पारे सवर्णायां प्रजापतेः।
सवर्णाऽऽधत्त सामुद्री दश प्राचीन बर्हिषः ।। २.२५ ।।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः।
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ।। २.२६ ।।
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः।
अरक्ष्यमाणामाववृर्बभूवाथ प्रजाक्षयः ।। २.२७ ।।
प्रत्याहते तदा तस्मिंश्चाक्षुषस्यान्तरे मनोः ।
नाशकन् मारुतो वातुं वृतं खमभवद्द्रुमैः।
दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ।। २.२८ ।।
तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः।
मुखेभ्यो वायुमग्निञ्च ससृजुर्ज्जातमन्यवः ।। २.२९ ।।
उन्मूलानथ तान् वृक्षान् कृत्वा वायुरशोषयत्।
तानग्निरदहद्वोर एवमासीद् द्रुमक्षयः ।। २.३० ।।
द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छेषेषु शाखिषु।
उपगम्याब्रवीदेतान् राजा सोमः प्रचेतसः ।। २.३१ ।।
दृष्ट्वा प्रयोजनं सर्वं लोकसन्तानकारणात्।
कोपन्त्यजत राजानः सर्वं प्राचीनबर्हिषः ।। २.३२ ।।
वृक्षाः क्षित्यां जनिष्यन्ति शाम्येतामग्निमारुतौ।
रत्नभूता तु कन्येयं वृक्षाणां वरवर्णिनी ।। २.३३ ।।
भविष्यं जानता ह्येषा मया गोभिर्विवर्द्धिता।
मारिषा नाम नाम्नैषा वृक्षैरेव विनिर्मिता।
भार्या भवतु वो ह्येषा सोमगर्भविवर्द्धिता ।। २.३४ ।।
युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः।
अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ।। २.३५ ।।
स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै।
अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ।। २.३६ ।।
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः।
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ।। २.३७ ।।
मारिषायां ततस्ते वै मनसा गर्भमादधुः।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।। २.३८ ।।
दक्षो जज्ञे महातेजाः सोमस्यांशेन वीर्यवान् ।
असृजन्मानसानादौ प्रजा दक्षोऽथ मैथुनात् ।। २.३९ ।।
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदान्।
विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः ।। २.४० ।।
ददौ स दश धर्माय कश्यपाय त्रयोदश।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ।। २.४१ ।।
एभ्यो दत्त्वा ततोऽन्या वै चतस्रोऽरिष्टनेमिने ।
द्वे चैव बाहुपुत्राय द्वे चैवाङ्गिरसे तथा।
कन्यामेकां कृशाश्वाय तेभ्योऽपत्यं निबोधत ।। २.४२ ।।
अन्तरं चाक्षुषस्यात्र मनोः षष्ठन्तु हीयते।
मनोर्वैवस्वतस्यापि सप्तमस्य प्रजापतेः ।। २.४३ ।।
तासु देवाः खगा गावो नागा दितिजदानवाः।
गन्धर्वोप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ।। २.४४ ।।
ततः प्रभृति लोकेऽस्मिन् प्रजा मैथुनसम्भवाः।
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ।। २.४५ ।।
           ।।ऋषय ऊचुः।।
देवानां दानवानाञ्च देवर्षीणाञ्च ते शुभः।
सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः ।। २.४६ ।।
प्राणात्प्रजापतेर्जन्म दक्षस्य कथितं त्वया।
कथं प्रचेतसत्वञ्च पुनर्लेभे महातपाः ।। २.४७ ।।
एतन्नः संशयं सूत व्याख्यातुं त्वमिहार्हसि।
स दौहित्रश्च सोमस्य कथं श्वशुरताङ्गतः ।। २.४८ ।।
          ।।सूत उवाच।।
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु सत्तमाः।
ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये नराः ।। २.४९ ।।
युगे युगे भवन्त्येते सर्वे दक्षादयो द्विजाः ।
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ।। २.५० ।।
ज्यैष्‌ठ्यं कानिष्ठ्यमप्येषां पूर्वं नासीद् द्विजोत्तमाः।
तप एव गरीयोऽभूत् प्रभावश्चैव कारणम् ।। २.५१ ।।
इमां विसृष्टिं यो वेद चाक्षुषस्य चराचरम्।
प्रजानामायुरुत्तीर्णः स्वर्गलोके महीयते ।। २.५२ ।।
एष सर्गः समाख्यातश्चाक्षुषस्य समा सतः।
इत्येते षढविसर्गा हिक्रान्ता मन्वन्तरात्मकाः।
स्वायम्भुवाद्या- संक्षेपाच्चाक्षुषान्ता यथाक्रमम् ।। २.५३ ।।
एते सर्गा यथाप्रज्ञं प्रोक्ता वै द्विजसत्तमाः।
वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः ।। २.५४ ।।
अनन्ता नातिरिक्ताश्च सर्वे सर्गा विवस्वतः।
आरोग्यायुष्प्रमाणेन धर्मतः कामतोऽर्थतः।
एतानेव गुणानेति यः पठत्यनसूयकः ।। २.५५ ।।
वैवस्वतस्य वक्ष्यामि साम्प्रतस्य महात्मनः।
समासाद्व्यासतः सर्गं ब्रुवतो मे निबोधत ।। २.५६ ।।
इतिश्रीमहापुराणे वायुप्रोक्ते पृथुवंशानुकीर्त्तनं नाम द्वितीयोऽध्यायः ।। २ ।।

२.२.१३

वत्सं स्वायम्भुवं कृत्वा दुग्धाऽऽग्नीध्रेण वै मही इति पाठान्तरः

वर्गः:वायुपुराणम्/उत्तरार्धम्

Page is sourced from

sa.wikisource.org वायुपुराणम्/उत्तरार्धम्/अध्यायः २