रामायणम्/सुन्दरकाण्डम्/सर्गः ५०

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥

तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।	
कोपेन महता ऽ ऽविष्टो रावणो लोकरावणः ।। ५.५०.१।।	
शङ्काहतात्मा दध्यौ स कपान्द्रं तेजसावृतम् ।	
किमेष भगवान्नन्दी भवेत् साक्षादिहागतः ।। ५.५०.२।।	
येन शप्तो ऽस्मि कैलासे मया सञ्चालिते पुरा ।	
सो ऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वा ऽसुरः ।। ५.५०.३।।	
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।	
कालयुक्तमुवाजेदं वचो विपुलमर्थवत् ।। ५.५०.४।।	
दुरात्मा पृच्छ्यतामेष कुतः किं वा ऽस्य कारणम् ।	
वनभङ्गे च को ऽस्यार्थो राक्षसीनां च तर्जने ।। ५.५०.५।।	
मत्पुरीमप्रधृष्यां वा ऽ ऽगमने किं प्रयोजनम् ।	
आयोधने वा किं कार्यं त्वया कपे ।। ५.५०.६।।	
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।	
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ।। ५.५०.७।।	
यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् ।	
तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ।। ५.५०.८।।	
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।	
चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ।	
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ।। ५.५०.९।।	
न हि ते वानरं तेजो रूपमात्रं तु वानरम् ।। ५.५०.१०।।	
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।	
अनृतं वदतश्चापि दुर्लभं तव जीवितम् ।	
अथवा यन्निमित्तं ते प्रवेशो रावणालये ।। ५.५०.११।।	
एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् ।। ५.५०.१२।।	
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ।	
धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ।। ५.५०.१३।।	
जातिरेव मम त्वेषा वानरो ऽहमिहागतः ।	
दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ।। ५.५०.१४।।	
वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।	
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ।। ५.५०.१५।।	
रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ।	
अस्त्रपाशैर्न शक्यो ऽहं बद्धुं देवासुरैरपि ।। ५.५०.१६।।	
पितामहादेव वरो ममाप्येषो ऽभ्युपागतः ।	
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ।। ५.५०.१७।।	
विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः ।	
केनचिद्राजकार्येण संप्राप्तो ऽस्मि तवान्तिकम् ।। ५.५०.१८।।	
दूतो ऽहमिति विज्ञेयो राघवस्यामितौजसः ।	
श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ।। ५.५०.१९।।	
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चाशः सर्गः ।। ५.५०।।	
</poem>

Page is sourced from

sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ५०