रामायणम्/सुन्दरकाण्डम्/सर्गः २१

From HinduismPedia
Revision as of 23:09, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः |	
सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह || ५.२१.१||
	
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते |	
राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः || ५.२१.२||
	
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः |	
परं परुषया वाचा वैदेहीम् इदमब्रुवन् || ५.२१.३||
	
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः |	
दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे || ५.२१.४||
	
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् |	
आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् || ५.२१.५||	

प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः |	
मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः || ५.२१.६||	

पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः |	
नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः || ५.२१.७||
	
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः |	
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि |	
मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे || ५.२१.८||	

ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् |	
विवृत्य नयने कोपान्मार्जारसदृशेक्षणा || ५.२१.९||	

येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः |	
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि || ५.२१.१०||	

वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः |	
बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे || ५.२१.११||	

प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः |	
सर्वासां च महाभागां त्वामुपैष्यति रावणः || ५.२१.१२||	

समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् |	
अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः || ५.२१.१३||
	
असकृद्देवता युद्धे नागगन्धर्वदानवाः |	
निर्जिताः समरे येन स ते पार्श्वमुपागतः || ५.२१.१४||
	
तस्य सर्वसमृद्धस्या रावणस्य महात्मनः |	
किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे || ५.२१.१५||	

यस्य सूर्यो न तपति भीतो यस्य च मारुतः |	
न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि || ५.२१.१६||
	
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् |	
शैलाश्च सुभ्रु पानीयं जलदाश् च यदेच्छति || ५.२१.१७||	

तस्य नैरृतराजस्य राजराजस्य भामिनि |	
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि || ५.२१.१८||	

साधु ते तत्त्वतो देवि कथितं साधु भामिनि |	
गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि || ५.२१.१९||

Page is sourced from

sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः २१