रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५०

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:रामायणम्/किष्किन्धाकाण्डम्

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥४-५०॥

सह तारा अंगदाभ्याम् तु संगम्य हनुमान् कपिः ।
विचिनोति च विन्ध्यस्य गुहाः च गहनानि च ॥४-५०-१॥

सिंह शार्दूल जुष्टाः च गुहाः च परितः तथा ।
विषमेषु नग इन्द्रस्य महा प्रस्रवणेषु च ॥४-५०-२॥

आसेदुः तस्य शैलस्य कोटिम् दक्षिण पस्चिमाम् ।
तेषाम् तत्र एव वसताम् स कालो व्यत्यवर्तत ॥४-५०-३॥

स हि देशो दुरन्वेष्यो गुहा गहनवान् महान् ।
तत्र वायु सुतः सर्वम् विचिनोति स्म पर्वतम् ॥४-५०-४॥

परस्परेण रहिता अन्योन्यस्य अविदूरतः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥४-५०-५॥
मैन्दः च द्विविदः चैव हनुमान् जांबवान् अपि ।
अंगदो युव राजः च तारः च वनगोचरः ॥४-५०-६॥
गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् ।
विचिन्वन्तः ततः तत्र ददृशुः विवृतम् बिलम् ॥४-५०-७॥
दुर्गम् ऋक्ष बिलम् नाम दानवेन अभिरक्षितम् ।

क्षुत् पिपासा परीताः तु श्रान्ताः तु सलिल अर्थिनः ॥४-५०-८॥
अवकीर्णम् लता वृक्षैः ददृशुः ते महा बिलम् ।

तत्र क्रौन्चाः च हंसाः च सारसाः च अपि निष्क्रमन् ॥४-५०-९॥
जल आर्द्राः चक्रवाकाः च रक्त अंगाः पद्म रेणुभिः ।

ततः तत् बिलम् आसाद्य सुगन्धि दुरतिक्रमम् ॥४-५०-१०॥
विस्मय व्यग्र मनसो बभूवुः वानरर्षभाः ।

संजात परिशंकाः ते तत् बिलम् प्लवग उत्तमाः ॥४-५०-११॥
अभ्यपद्यन्त संहृष्टाः तेजोवन्तो महाबलाः ।

नाना सत्त्व समाकीर्णाम् दैत्य इन्द्र निलय उपमम् ॥४-५०-१२॥
दुर्दर्शम् इव घोरम् च दुर्विगाह्यम् च सर्वशः ।

ततः पर्वत कूट आभो हनुमान् मारुत आत्मजः ॥४-५०-१३॥
अब्रवीत् वानरान् घोरान् कान्तार वन कोविदः ।

गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् ॥४-५०-१४॥
वयम् सर्वे परिश्रांता न च पश्याम मैथिलीम् ।

अस्मात् च अपि बिलात् हंसाः क्रौन्चाः च सह सारसैः ॥४-५०-१५॥
जल आर्द्राः चक्रवाकाः च निष्पतन्ति स्म सर्वशः ।
नूनम् सलिलवान् अत्र कूपो वा यदि वा ह्रदः ॥४-५०-१६॥
तथा च इमे बिल द्वारे स्निग्धाः तिष्ठन्ति पादपाः ।

इति उक्ताः तत् बिलम् सर्वे विविशुः तिमिर आवृतम् ॥४-५०-१७॥
अचन्द्र सूर्यम् हरयो ददृशू रोम हर्षणम् ।

निशम्य तस्मात् सिंहाः च तान् तान् च मृग पक्षिणः ॥४-५०-१८॥
प्रविष्टा हरि शार्दूला बिलम् तिमिर आवृतम् ।

न तेषाम् सज्जते दृष्टिः न तेजः न पराक्रमः ॥४-५०-१९॥
वायोः इव गतिः तेषाम् दृष्टिः तम् अपि वर्तते ।

ते प्रविष्टाः तु वेगेन तत् बिलम् कपि कुंजराः ॥४-५०-२०॥
प्रकाशम् च अभिरामम् च ददृशुः देशम् उत्तमम् ।

ततः तस्मिन् बिले भीमे नाना पादप संकुले ॥४-५०-२१॥
अन्योन्यम् संपरिष्वज्य जग्मुर् योजनम् अंतरम् ।

ते नष्ट संज्ञाः तृषिताः संभ्रांताः सलिल अर्थिनः ॥४-५०-२२॥
परिपेतुर् बिले तस्मिन् कंचित् कालम् अतन्द्रिताः ।

ते कृशा दीन वदनाः परिश्रान्ताः प्लवंगमाः ॥४-५०-२३॥
आलोकम् ददृशुः वीरा निराशा जीविते यदा ।

ततः तम् देशम् आगम्य सौम्याः वितिमिरम् वनम् ॥४-५०-२४॥
ददृशुः कान्चनान् वृक्षान् दीप्त वैश्वानर प्रभान् ।
सालान् तालान् तमालान् च पुन्नागान् वंजुलान् धवान् ॥४-५०-२५॥
चंपकान् नाग वृक्षान् च कर्णिकारान् च पुष्पितान् ।
स्तबकैः कांचनैः चित्रैः रक्तैः किसलयैः तथा ॥४-५०-२६॥
आपीडैः च लताभिः च हेम आभरण भूषितैः ।
तरुण आदित्य संकाशान् वैदूर्यमय वेदिकान् ॥४-५०-२७॥
विभ्राजमानान् वपुषा पादपान् च हिरण्मयान् ।
नील वैदूर्य वर्णाः च पद्मिनीः पतगैः आवृताः ॥४-५०-२८॥
महद्भिः कांचनैः वृक्षैः वृता बाल अर्क संनिभैः ।

जातरूपमयैः मत्स्यैः महद्भिः च अथ पन्कजैः ॥४-५०-२९॥
नलिनीः तत्र ददृशुः प्रसन्न सलिल आयुताः ।

कांचनानि विमानानि राजतानि तथा एव च ॥४-५०-३०॥
तपनीय गवाक्षाणि मुक्ता जाल आवृतानि च ।
हैम राजत भौमानि वैदूर्य मणिमन्ति च ॥४-५०-३१॥
ददृशुः तत्र हरयो गृह मुख्यानि सर्वशः ।

पुष्पितान् फलिनो वृक्षान् प्रवाल मणि संनिभान् ॥४-५०-३२॥
कांचन भ्रमरान् चैव मधूनि च समन्ततः ।

मणि कांचन चित्राणि शयनानि आसनानि च ॥४-५०-३३॥
विविधानि विशालानि ददृशुः ते समन्ततः ।
हेम रजत कांस्यानाम् भाजनानाम् च राशयः ॥४-५०-३४॥

अगुरूणाम् च दिव्यानाम् चंदनानाम् च संचयम् ।
शुचीनि अभ्यवहाराणि मूलानि च फलानि च ॥४-५०-३५॥

महा अर्हाणि च पानानि मधूनि रसवन्ति च ।
दिव्यानाम् अम्बराणाम् च महा अर्हाणाम् च संचयान् ॥४-५०-३६॥
कंबलानाम् च चित्राणाम् अजिनानाम् च संचयान् ।

तत्र तत्र विन्यस्तान् दीप्तान् वैश्वानर प्रभान् ॥४-५०-३७॥
ददृशुः वानराः शुभ्रान् जातरूपस्य संचयान् ।

तत्र तत्र विचिन्वन्तो बिले तत्र महा प्रभाः ॥४-५०-३८॥
ददृशुः वानराः शूराः स्त्रियम् कांचित् अदूरतः ।

ताम् च ते ददृशुः तत्र चीर कृष्ण अजिन अम्बराम् ॥४-५०-३९॥
तापसीम् नियत आहाराम् ज्वलंतीम् इव तेजसा ।

विस्मिता हरयः तत्र व्यवतिष्टन्त सर्वशः ।
प्रपच्छ हनुमान् तत्र का असि त्वम् कस्य वा बिलम् ॥४-५०-४०॥

ततो हनूमान् गिरि सन्निकाशः
कृत अंजलिः ताम् अभिवाद्य वृद्धाम् ।
पप्रच्छ का त्वम् भवनम् बिलम् च
रत्नानि च इमानि वदस्व कस्य ॥४-५०-४१॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥४-५०॥

Page is sourced from

sa.wikisource.org रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५०