रामायणम्/किष्किन्धाकाण्डम्/सर्गः १०

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:रामायणम्/किष्किन्धाकाण्डम् श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे दशमः सर्गः ॥४-१०॥

ततः क्रोध समाविष्टम् सम्रब्धम् तम् उपागतम् ।
अहम् प्रसादयान् चक्रे भ्रातरम् हित काम्यया ॥४-१०-१॥

दिष्ट्या असि कुशली प्राप्तो निहतः च त्वया रिपुः ।
अनाथस्य हि मे नाथः त्वम् एको अनाथ नन्दनः ॥४-१०-२॥

इदम् बहु शलाकम् ते पूर्ण चन्द्रम् इव उदितम् ।
छत्रम् स वाल व्यजनम् प्रतीच्छस्व मया धृतम् ॥४-१०-३॥

आर्तस्य अथ बिला द्वारि स्थितः संवत्सरम् नृप ।
दृष्ट्वा च शोणितम् द्वारि बिलात् च अपि समुत्थितम् ॥४-१०-४॥
शोक संविग्न हृदयो भृशम् व्याकुलित इन्द्रियः ।
अपिधाय बिल द्वारम् शैल शृङ्गेण तत् तदा ॥४-१०-५॥
तस्मात् देशात् अपाक्रम्य किष्किन्धाम् प्राविशम् पुनः ।

विषादात् इह माम् दृष्ट्वा पोउरैः मंत्रिभिर् एव च ॥४-१०-६॥
अभिषिक्तो न कामेन तन्मे क्षन्तुम् त्वम् अर्हसि ।

त्वम् एव राजा मानार्हः सदा च अहम् यथा पुरा ॥४-१०-७॥
राजभावे नियोगः अयम् मम त्वत् विरहात् कृतः ।
स अमात्य पौर नगरम् स्थितम् निहत कण्टकम् ॥४-१०-८॥

न्यास भूतम् इदम् राज्यम् तव निर्यातयामि अहम् ।
मा च रोषम् कृथाः सौम्य मम शत्रु निषूदन॥४-१०-९॥

याचे त्वाम् शिरसा राजन् मया बद्धो अयम् अंजलिः ।
बलात् अस्मिन् समागम्य मंत्रिभिः पुर वासिभिः ॥४-१०-१०॥
राजभावे नियुक्तो अहम् शून्य देश जिगीषया ।

स्निग्धम् एवम् ब्रुवाणम् माम् स विनिर्भर्त्स्य वानरः ॥४-१०-११॥
धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तत् उवाच ह ।

प्रकृतीः च समानीय मंत्रिणः चैव सम्मतान् ॥४-१०-१२॥
माम् आह सुहृदाम् मध्ये वाक्यम् परम गर्हितम् ।

विदितम् वो मया रात्रौ मायावी स महाअसुरः ॥४-१०-१३॥
माम् समाह्वयत क्रुद्धो युद्ध कांक्षी तदा पुरा ।

तस्य तद् भाषितम् श्रुत्वा निःसृतः अहम् नृपाअलयात् ॥४-१०-१४॥
अनुयातः च माम् तूर्णम् अयम् भ्राता सुदारुणः ।

स तु दृष्ट्वा एव माम् रात्रौ स द्वितीयम् महाबलः ॥४-१०-१५॥
प्राद्रवत् भय संत्रस्तो वीक्ष्य आवाम् समुपागतौ ।
अभिद्रुतः तु वेगेन विवेश स महाबिलम् ॥४-१०-१६॥

तम् प्रविष्टम् विदित्वा तु सुघोरम् सुमहद् बिलम् ।
अयम् उक्तो अथ मे भ्राता मया तु क्रूर दर्शनः ॥४-१०-१७॥

अहत्वा न अस्ति मे शक्तिः प्रति गन्तुम् इतः पुरीम् ।
बिल द्वारि प्रतीक्ष त्वम् यावत् एनम् निहन्मि अहम् ॥४-१०-१८॥

स्थितोऽयम् इति मत्वा अहम् प्रविष्टः तु दुरासदम् ।
तम् मे मार्गयतः तत्र गतः संवत्सरः तदा ॥४-१०-१९॥

स तु दृष्टो मया शत्रुः अनिर्वेदात् भयाअवहः ।
निहतः च मया सद्यः सः सर्वैः सह बन्धुभिः ॥४-१०-२०॥

तस्य आस्यात् तु प्रवृत्तेन रुधिरौघेण तद् बिलम् ।
पूर्णम् आसीत् दुराक्रामम् स्वनतः तस्य भूतले ॥४-१०-२१॥

सूदयित्वा तु तम् शत्रुम् विक्रान्तम् तम् अहम् सुखम् ।
निष्क्रामम् न एव पश्यामि बिलस्य पिहितम् मुखम् ॥४-१०-२२॥

विक्रोशमानस्य तु मे सुग्रीव इति पुनः पुनः ।
यतः प्रतिवचो नास्ति ततः अहम् भृश दुःखितः ॥४-१०-२३॥

पाद प्रहारैः तु मया बहुभिः परिपातितम् ।
ततः अहम् तेन निष्क्रम्य पथा पुरम् उपागतः ॥४-१०-२४॥

तत्र अनेन अस्मि सम्रुद्धः राज्यम् मृगयत आत्मनः ।
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृ सौहृदम् ॥४-१०-२५॥

एवम् उक्त्वा तु माम् तत्र वस्त्रेण एकेन वानरः ।
तदा निर्वासयामास वाली विगत साध्वसः ॥४-१०-२६॥

तेन अहम् अपविद्धः च हृत दारः च राघव ।
तत् भयात् च महीम् सर्वान् क्रान्तवान् स वन अर्णवाम् ॥४-१०-२७॥

ऋश्यमूकम् गिरि वरम् भार्या हरण दुःखितः ।
प्रविष्टो अस्मि दुराधर्षम् वालिनः कारणान्तरे ॥४-१०-२८॥

एतत् ते सर्वम् आख्यातम् वैर अनुकथनम् महत् ।
अनागसा मया प्राप्तम् व्यसनम् पश्य राघव ॥४-१०-२९॥

वालिनः च भयात् तस्य सर्वलोक भयापह ।
कर्तुम् अर्हसि मे वीर प्रसादम् तस्य निग्रहात् ॥४-१०-३०॥

एवम् उक्तः स तेजस्वी धर्मज्ञो धर्म संहितम् ।
वचनम् वक्तुम् आरेभे सुग्रीवम् प्रहसन् इव ॥४-१०-३१॥

अमोघाः सूर्य संकाशा निशिता मे शरा इमे ।
तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुष अन्विताः ॥४-१०-३२॥

यावत् तम् न हि पश्येयम् तव भार्य अपहारिणम् ।
तावत् स जीवेत् पापात्मा वाली चारित्र दूषकः ॥४-१०-३३॥

आत्म अनुमानात् पश्यामि मग्नः त्वाम् शोक सागरे ।
त्वाम् अहम् तारयिष्यामि बाढम् प्राप्स्यसि पुष्कलम् ॥४-१०-३४॥

तस्य तत् वचनम् श्रुत्वा हर्ष पौरुष वर्धनम् ।
सुग्रीवः परम प्रीतः सु महत् वाक्यम् अब्रवीत् ॥४-१०-३५॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे दशमः सर्गः ॥४-१०॥

Page is sourced from

sa.wikisource.org रामायणम्/किष्किन्धाकाण्डम्/सर्गः १०