रामायणम्/उत्तरकाण्डम्/सर्गः ३४

From HinduismPedia
Revision as of 23:00, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:रामायणम्/उत्तरकाण्डम्

अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।
चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ।। ७.३४.१ ।।

राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् ।
रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ।। ७.३४.२ ।।

ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ।
गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ।। ७.३४.३ ।।

ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः ।
उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ।। ७.३४.४ ।।

राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् ।
को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ।। ७.३४.५ ।।

चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण ।
इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ।। ७.३४.६ ।।

एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः ।
युद्धार्थिनामिमे राजन्वानराधिपतेजसा ।। ७.३४.७ ।।

यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस ।
तदा वालिनमासाद्य तदन्तं तव जीवितम् ।। ७.३४.८ ।।

पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत ।
इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ।। ७.३४.९ ।।

अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ।
वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ।। ७.३४.१० ।।

स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः ।
पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ।। ७.३४.११ ।।

तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ।
रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ।। ७.३४.१२ ।।

पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः ।
ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ।। ७.३४.१३ ।।

यदृच्छया तदा दृष्टो वालिनापि स रावणः ।
पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ।। ७.३४.१४ ।।

शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ।
न चिन्तयति तं वाली रावणं पापनिश्चयम् ।। ७.३४.१५ ।।

जिघृक्षमाणमायान्तं रावणं पापचेतसम् ।
कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ।। ७.३४.१६ ।।

द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् ।
लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ।। ७.३४.१७ ।।

इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ।
जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ।। ७.३४.१८ ।।

तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ।
प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ।। ७.३४.१९ ।।

हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् ।
पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ।। ७.३४.२० ।।

ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।
खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ।। ७.३४.२१ ।।

तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः ।
जहार रावणं वाली पवनस्तोयदं यथा ।। ७.३४.२२ ।।

अथ ते राक्षसामात्या ह्रियमाणं दशाननम् ।
मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ।। ७.३४.२३ ।।

अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः ।
अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ।। ७.३४.२४ ।।

ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः ।
तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ।। ७.३४.२५ ।।

वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः ।
किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ।। ७.३४.२६ ।।

अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः ।
क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ।। ७.३४.२७ ।।

सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः ।
पश्चिमं सागरं वाली ह्याजगाम सरावणः ।। ७.३४.२८ ।।

तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः ।
उत्तरं सागरं प्रायाद्वहमानो दशाननम् ।। ७.३४.२९ ।।

बहुयोजनसाहस्रं वहमानो महाहरिः ।
वायुवच्च मनोवच्च जगाम सह शत्रुणा ।। ७.३४.३० ।।

उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् ।
वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ।। ७.३४.३१ ।।

तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः ।
किष्किन्धामभितो गृह्य रावणं पुनरागमत् ।। ७.३४.३२ ।।

चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः ।
रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ।। ७.३४.३३ ।।

रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।
कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ।। ७.३४.३४ ।।

विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः ।
राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ।। ७.३४.३५ ।।

वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः ।
युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ।। ७.३४.३६ ।।

अहो बलमहो वीर्यमहो गाम्भीर्यमेव च ।
येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ।। ७.३४.३७ ।।

एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् ।
मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ।। ७.३४.३८ ।।

त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम ।
मनोनिलसुपर्णानां तव चात्र न संशयः ।। ७.३४.३९ ।।

सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव ।
त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ।। ७.३४.४० ।।

दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् ।
सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ।। ७.३४.४१ ।।

ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ ।
भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ।। ७.३४.४२ ।।

अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ ।
किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ।। ७.३४.४३ ।।

स तत्र मासमुषितः सुग्रीव इव रावणः ।
अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ।। ७.३४.४४ ।।

एवमेतत्पुरावृत्तं वालिना रावणः प्रभो ।
धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ।। ७.३४.४५ ।।

बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् ।
सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ।। ७.३४.४६ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुस्त्रिंशः सर्गः ।। ३४ ।।

वर्गः:रामायणम्/उत्तरकाण्डम्

Page is sourced from

sa.wikisource.org रामायणम्/उत्तरकाण्डम्/सर्गः ३४