रामायणम्/उत्तरकाण्डम्/सर्गः २७

From HinduismPedia
Revision as of 23:00, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:रामायणम्/उत्तरकाण्डम्


कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः ।
आससाद महातेजा इन्द्रलोकं निशाचरः ।। ७.२७.१ ।।

तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।
देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ।। ७.२७.२ ।।

श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् ।
अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ।। ७.२७.३ ।।

आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् ।
सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ।। ७.२७.४ ।।

एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ।
सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ।। ७.२७.५ ।।

स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ।
विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ।। ७.२७.६ ।।

विष्णो कथं करिष्यामि महावीर्यपराक्रमः ।
असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ।। ७.२७.७ ।।

वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।
तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ।। ७.२७.८ ।।

तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ।
त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ।। ७.२७.९ ।।

नह्यन्यो देवदेवेश त्वामृते मधुसूदन ।
गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ।। ७.२७.१० ।।

त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ।
त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ।। ७.२७.११ ।।

त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ।
त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ।। ७.२७.१२ ।।

तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् ।
अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ।। ७.२७.१३ ।।

एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ।
अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ।। ७.२७.१४ ।।

न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः ।
हन्तुं चापि समासाद्य वरदानेन दुर्जयः ।। ७.२७.१५ ।।

सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ।
राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ।। ७.२७.१६ ।।

यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर ।
नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ।। ७.२७.१७ ।।

नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते ।
दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ।। ७.२७.१८ ।।

प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो ।
भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ।। ७.२७.१९ ।।

अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् ।
देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् ।
एतत्ते कथितं तत्त्वं देवराज शचीपते ।। ७.२७.२० ।।

युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ।। ७.२७.२१ ।।यामि ज्ञात्वा कालमुपागतम् ।
ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ ।
सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ।। ७.२७.२२ ।।

एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ।
तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ।। ७.२७.२३ ।।

ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै ।
सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ।। ७.२७.२४ ।।

ततो दैवतसैन्यनां सङ्क्षोभः समजायत ।
तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ।। ७.२७.२५ ।।

ततो युद्धं समभवेद्देवदानवरक्षसाम् ।
घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ।। ७.२७.२६ ।।

एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।
युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ।। ७.२७.२७ ।।

मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ।
अकम्पनो निकुम्भश्च शुकः सारण एव च ।। ७.२७.२८ ।।

संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः ।
जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ।। ७.२७.२९ ।।

सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः ।
त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ।। ७.२७.३० ।।

महाकायो ऽतिकायश्च देवान्तकनरान्तकौ ।
एतैः सर्वैः परिवृतो महावीर्यो महाबलः ।। ७.२७.३१ ।।

रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह ।
स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः ।
व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ।। ७.२७.३२ ।।

तद्दैवतबलं राम हन्यमानं निशाचरैः ।
प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ।। ७.२७.३३ ।।

एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ।
सावित्र इति विख्यातः प्रविवेश रणाजिरम् ।। ७.२७.३४ ।।

तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ ।
निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ।। ७.२७.३५ ।।

ततो युद्धं समभवत्सुराणां सह राक्षसैः ।
क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ।। ७.२७.३६ ।।

ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् ।
नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ।। ७.२७.३७ ।।

देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् ।
समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ।। ७.२७.३८ ।।

एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ।
नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ।। ७.२७.३९ ।।

स दैवतबलं सर्वं नानाप्रहणैः शितैः ।
व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ।। ७.२७.४० ।।

ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ।
हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ।। ७.२७.४१ ।।

ततो विद्राव्यमाणेषु दैवतेषु सुमालिना ।
वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ।। ७.२७.४२ ।।

संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् ।
विक्रमेण महातेजा वारयामास संयुगे ।। ७.२७.४३ ।।

ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ।। ७.२७.४४ ।।

सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ।
ततस्तस्य महाबाणैर्वसुना सुमहात्मना ।
निहतः पन्नगरथः क्षणेन विनिपातितः ।। ७.२७.४५ ।।

हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् ।
गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ।। ७.२७.४६ ।।

ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् ।
तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ।। ७.२७.४७ ।।

सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा ।
इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ।। ७.२७.४८ ।।

तस्य नैवास्थि न शिरो न मांसं ददृशे तदा ।
गदया भस्मतां नीतं निहतस्य रणाजिरे ।। ७.२७.४९ ।।

तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः ।
व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् ।
विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ।। ७.२७.५० ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तविंशः सर्गः ।। २७ ।।

वर्गः:रामायणम्/उत्तरकाण्डम्

Page is sourced from

sa.wikisource.org रामायणम्/उत्तरकाण्डम्/सर्गः २७