रामायणम्/अरण्यकाण्डम्/सर्गः ४६

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:रामायणम्/अरण्यकाण्डम्

श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-४६॥

तया परुषम् उक्तः तु कुपितो राघव अनुजः ।
स विकांक्षन् भृशम् रामम् प्रतस्थे न चिरात् इव ॥३-४६-१॥

तदा आसाद्य दशग्रीवः क्षिप्रम् अंतरम् आस्थितः ।
अभिचक्राम वैदेहीम् परिव्राजक रूप धृक् ॥३-४६-२॥

श्लक्ष्ण काषाय संवीतः शिखी चत्री उपानही ।
वामे च अंसे अवसज्य अथ शुभे यष्टि कमण्डलू ॥३-४६-३॥
परिव्राजक रूपेण वैदेहीम् अन्ववर्तत ।

ताम् आससाद अतिबलो भ्रातृभ्याम् रहिताम् वने ॥३-४६-४॥
रहिताम् सूर्य चन्द्राभ्याम् संध्याम् इव महत् तमः ।

ताम् अपश्यत् ततो बालाम् राज पुत्रीम् यशस्विनीम् ॥३-४६-५॥
रोहिणीम् शशिना हीनाम् ग्रहवत् भृश दारुणः ।

तम् उग्रम् पाप कर्माणम् जनस्थान गता द्रुमाः ॥३-४६-६॥
संदृश्य न प्रकंपन्ते न प्रवाति च मारुतः ।

शीघ्र स्रोताः च तम् दृष्ट्वा वीक्षंतम् रक्त लोचनम् ॥३-४६-७॥
स्तिमितम् गंतुम् आरेभे भयात् गोदावरी नदी ।

रामस्य तु अंतरम् प्रेप्सुः दशग्रीवः तत् अंतरे ॥३-४६-८॥
उपतस्थे च वैदेहीम् भिक्षु रूपेण रावणः ।

अभव्यो भव्य रूपेण भर्तारम् अनुशोचतीम् ॥३-४६-९॥
अभ्यवर्तत वैदेहीम् चित्राम् इव शनैश्चरः ।

सहसा भव्य रूपेण तृणैः कूप इव आवृतः ॥३-४६-१०॥
अतिष्ठत् प्रेक्ष्य वैदेहीम् राम पत्नीम् यशस्विनीम् ।

तिष्टन् संप्रेक्ष्य च तदा पत्नीम् रामस्य रावण ॥३-४६-११॥
शुभाम् रुचिर दन्त ओष्ठीम् पूर्ण चन्द्र निभ आननाम् ।
आसीनाम् पर्णशालायाम् बाष्प शोक अभिपीडिताम् ॥३-४६-१२॥
स ताम् पद्म पलाश अक्षीम् पीत कौशेय वासिनीम् ।
अभ्यगच्छत वैदेहीम् हृष्ट चेता निशा चरः ॥३-४६-१३॥

दृष्ट्वा काम शर आविद्धो ब्रह्म घोषम् उदीरयन् ।
अब्रवीत् प्रश्रितम् वाक्यम् रहिते राक्षस अधिपः ॥३-४६-१४॥

ताम् उत्तमाम् त्रिलोकानाम् पद्म हीनाम् इव श्रियम् ।
विभ्राजमानाम् वपुषा रावणः प्रशशम्स ह ॥३-४६-१५॥

का त्वम् कांचन वर्ण आभे पीत कौशेय वासिनि ।
कमलानाम् शुभाम् मालाम् पद्मिनी इव च बिभ्रती ॥३-४६-१६॥

ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीः अप्सरा वा शुभ आनने ।
भूतिर् वा त्वम् वराअरोहे रतिर् वा स्वैर चारिणी ॥३-४६-१७॥

समाः शिखरिणः स्निग्धाः पाण्डुरा दशनाः तव ।
विशाले विमले नेत्रे रक्तान्ते कृष्ण तारके ॥३-४६-१८॥

विशालम् जघनम् पीनम् ऊरू करि कर उपमौ ।
एतौ उपचितौ वृत्तौ संहतौ संप्रगल्भितौ ॥३-४६-१९॥
पीन उन्नत मुखौ कान्तौ स्निग्ध ताल फल उपमौ ।
मणि प्रवेक आभरणौ रुचिरौ ते पयो धरौ ॥३-४६-२०॥

चारु स्मिते चारु दति चारु नेत्रे विलासिनि ।
मनो हरसि मे रामे नदी कूलम् इव अंभसा ॥३-४६-२१॥
करान्तमित मध्या असि सुकेशी संहत स्तनी ।

न एव देवी न गन्धर्वी न यक्षी न च किंनरी ॥३-४६-२२॥
न एवम् रूपा मया नारी दृष्ट पूर्वा मही तले ।

रूपम् अग्र्यम् च लोकेषु सौकुमार्यम् वयः च ते ॥३-४६-२३॥
इह वासः च कांतारे चित्तम् उन्मथयन्ति मे ।

सा प्रतिक्राम भद्रम् ते न त्वम् वस्तुम् इह अर्हसि ॥३-४६-२४॥
राक्षसानाम् अयम् वासो घोराणाम् काम रूपिणाम् ।

प्रासाद अग्राणि रम्याणि नगर उपवनानि च ॥३-४६-२५॥
संपन्नानि सुगन्धीनि युक्तानि आचरितुम् त्वया ।

वरम् माल्यम् वरम् गंधम् वरम् वस्त्रम् च शोभने ॥३-४६-२६॥
भर्तारम् च वरम् मन्ये त्वत् युक्तम् असितेक्षणे ।

का त्वम् भवसि रुद्राणाम् मरुताम् वा शुचिस्मिते ॥३-४६-२७॥
वसूनाम् वा वराअरोहे देवता प्रतिभासि मे ।

न इह गच्छंति गंधर्वा न देवा न च किन्नराः ॥३-४६-२८॥
राक्षसानाम् अयम् वासः कथम् तु त्वम् इह आगता ।

इह शाखामृगाः सिंहा द्वीपि व्याघ्र मृगाः तथा ॥३-४६-२९॥
ऋक्षाः तरक्षवः कंकाः कथम् तेभ्यो न बिभ्यसे ।

मद अन्वितानाम् घोराणाम् कुंजराणाम् तरस्विनाम् ॥३-४६-३०॥
कथम् एका महारण्ये न बिभेषि वराअनने ।

का असि कस्य कुतः च त्वम् किम् निमित्तम् च दण्डकान् ॥३-४६-३१॥
एका चरसि कल्याणि घोरान् राक्षस सेवितान् ।

इति प्रशस्ता वैदेही रावणेन दुरात्मना - महात्मना-  ॥३-४६-३२॥
द्विजाति वेषेण हि तम् दृष्ट्वा रावणम् आगतम् ।
सर्वैः अतिथि सत्कारैः पूजयामास मैथिली ॥३-४६-३३॥

उपानीय आसनम् पूर्वम् पाद्येन अभिनिमंत्र्य च ।
अब्रवीत् सिद्धम् इति एव तदा तम् सौम्य दर्शनम् ॥३-४६-३४॥

द्विजाति वेषेण समीक्ष्य मैथिलीतम् आगतम् पात्र कुसुंभ धारिणम् ।
अशक्यम् उद्द्वेष्टुम् उपाय दर्शनान्न्यमंत्रयत् ब्राह्मणवत् यथा आगतम् ॥३-४६-३५॥

इयम् बृसी ब्राह्मण कामम् आस्यताम्इदम् च पाद्यम् प्रतिगृह्यताम् इति ।
निमंत्र्यमाणः प्रतिपूर्ण भाषिणीम्नरेन्द्र पत्नीम् प्रसमीक्ष्य मैथिलीम् ।
प्रसह्य तस्या हरणे धृढम् मनःसमर्पयामास आत्म वधाय रावणः ॥३-४६-३६॥

ततः सुवेषम् मृगया गतम् पतिम्प्रतीक्षमाणा सह लक्ष्मणम् तदा ।
निरीक्षमाणा हरितम् ददर्श तत्महद् वनम् न एव तु राम लक्ष्मणौ ॥३-४६-३७॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-४६॥

Page is sourced from

sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः ४६