मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ३१

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



सर्वतः पर्वताकाराः पतितास्तेऽसुरालयः ।

विस्फोटिताङ्गचरणा वं हसन्तीत्य् । अत्राह

अक्षीबक्षीबयोरैक्यं क्व किलेहाज्ञतज्ज्ञयोः ।

आन्ध्यप्रकाशयोर्बोधे स्याच्छायातपयोरिव ॥ ४,३१.२२ ॥

अक्षीबक्षीबयोः स्वात्मानन्दाख्यमधुपानेन तदपानेन च संसारं प्रति विस्मरणाविस्मरणशीलयोः । तज्ज्ञाज्ञयोर्बोधे अनुभवे । ऐक्यं परस्परसम्मतिरूपमैक्यम् । क्व स्यात् । न स्यादित्यर्थः । न हि क्षीबाक्षीबयोरिह बोधे सम्मतिः दृश्यत इति भावः । अतः एते हसन्तीत्याशयः । तयोः कयोरिव । छायातपयोरिव । यथा आन्ध्यप्रकाशरूपयोः छायातपयोः बोधे पदार्थप्रकटनाख्ये बोधे । ऐक्यं नास्ति । तथेत्यर्थः ॥ ४,३१.२२ ॥

 

 

 

ननु किमर्थं तयोः बोधे ऐक्यं नास्तीत्य् । अत्राह

यत्नेनाप्यनुभूतेऽर्थे सत्ये कर्तुमपह्नवम् ।

तज्ज्ञोऽज्ञश्च न शक्नोति शव आक्रमणं यथा ॥ ४,३१.२३ ॥

अनुभूते । अत एव सत्ये सत्यतया ज्ञाते । अर्थे चिन्मात्राख्ये जगदाख्ये च वस्तुनि । तज्ज्ञः अज्ञः च यत्नेनापि अपह्नवं कर्तुं न शक्नोति । पुरःस्फुरत्त्वात् । न हि पुरः स्फुरत्वस्तु कश्चिदपह्नोतुं शक्नोति । अत एव तयोः बोधे ऐक्यं नास्तीति भावः । कः यथा न शक्नोति । शवो यथा । यथा शवः आक्रमणं पदार्थाक्रमणम् । न शक्नोति । तथेत्यर्थः ॥ ४,३१.२३ ॥

 

 

 

ननु तर्हि अज्ञोऽप्येतदेव कथयत्वित्य् । अत्राह

ब्रह्म सर्वं जगदिति वक्तुं तज्ज्ञस्य युज्यते ।

यतोऽविद्याननुभवे स तदेवानुभूतवान् ॥ ४,३१.२४ ॥

सर्वं जगद्ब्रह्म भवति । इति एवम् । वक्तुं तज्ज्ञस्य चिन्मात्राख्यब्रह्मस्वरूपज्ञस्य । युज्यते । यतः स एव तज्ज्ञः एव । तत्ब्रह्म । अनुभूतवान् दृष्टवान् । कस्मिन् सति । अविद्यायाः अननुभवे जगत्पदार्थरूपैः भावाभावैः उपलक्षितायाः अविद्यायाः अदर्शने सति ॥ ४,३१.२४ ॥

 

 

 

पुनरपि एतदेव कथयति

प्रबुद्धविषये ह्येषा राम वाक्प्रविराजते ।

बुद्धस्यास्मीति रूपेण किल नास्त्येव किञ्चन ॥ ४,३१.२५ ॥

हे राम । एषा वाक्सर्वं ब्रह्मेति वाक् । प्रबुद्धाख्यो यः विषयः योग्यो देशः । तत्र प्रविराजते । अर्थातबुद्धविषये न राजते इति ज्ञेयम् । ननु कथं तत्रैव राजते इत्य् । अत्राह बुद्धस्येति । यतः इति शेषः । यतः बुद्धस्य किञ्चन किञ्चिदपि शरीरादिकम् । अस्मीति रूपेण नास्ति अस्मीति ज्ञानविषयं नास्ति । अयं भावः । अज्ञः देहोऽहमिति निश्चितः तदुपयोगीनि वस्तून्यपि सत्यानीति जानाति । अन्यथा तदर्थं रात्रिन्दिनं प्रयत्नपरत्वायोगात् । ज्ञस्तु देहाभिमानाभावात्तदुपयोगिषु सत्यतां न जानाति । अन्यथा तद्विषयाया उपेक्षाया अयोगात् । इति तज्ज्ञस्यैव सर्वं ब्रह्मेति वक्तुं युक्तं नाज्ञस्येति ॥ ४,३१.२५ ॥

 

 

 

ननु तज्ज्ञस्यास्या अनुभूतेः कदाचिदपह्नवोऽस्ति न वेत्य् । अत्राह

ब्रह्मैवेदं परं शान्तमित्येवानुभवन् सुधीः ।

अपह्नवः स्वानुभूतेः कर्तुं तस्य न युज्यते ॥ ४,३१.२६ ॥

सुधीः ज्ञः । इदं जगत् । शान्तं परं ब्रह्मैव भवति । इत्येव एवमेव । अनुभवन् भवति । अतः तस्य ज्ञस्य । अस्याः स्वानुभूतेः अपह्नवः कर्तुं न युज्यते युक्तो न भवति ॥ ४,३१.२६ ॥

 

 

 

ननु तर्हि त्वं कथं श्रीवसिष्ठ इति नामयोग्योऽसीत्य् । अत्राह

परस्माद्व्यतिरेकेण नाहमात्मनि किञ्चन ।

हेमनीवोर्मिकादित्वं न मय्यस्ति वसिष्ठता ॥ ४,३१.२७ ॥

अहं वसिष्ठाख्यः अहम् । आत्मनि स्वस्मिन् । परस्मातुत्तीर्णात्चिन्मात्रात् । व्यतिरेकेण नास्मि । त्वं तु यत्पश्यसि तत्पश्येति भावः । अतो मयि वसिष्ठता वसिष्ठेति नामयोग्यता । नास्ति । किमिव । ऊर्मिकादित्वमिव । यथा ऊर्मिकादित्वं हेमनि नास्ति । तथेत्यर्थः । अतोऽहमपि वसिष्ठो नास्मीति भावः ॥ ४,३१.२७ ॥

 

 

 

ननु यदि त्वं स्वात्मनीदृशोऽसि तर्हि मूढः कीदृशोऽस्तीत्य् । अत्राह

भूतत्वव्यतिरेकेण मूढो नात्मनि किञ्चन ।

ऊर्म्यादिबुद्धौ हेमेव नाज्ञेऽस्ति परमार्थता ॥ ४,३१.२८ ॥

मूढः चिन्मात्रस्वरूपपरमात्मज्ञानहीनः । आत्मनि । भूतत्वव्यतिरेकेण देहभावादृते । किञ्चन किञ्चिदपि । नास्ति । तज्ज्ञस्तु तं यद्रूपं पश्यति तद्रूपं पश्यत्विति भावः । यतः अज्ञे परमार्थता परमार्थभूतचिन्मात्रभावः । नास्ति । स हि स्वं चिन्मात्ररूपं न पश्यति । किमिव । हेमेव । यथा ऊर्म्यादिबुद्धौ ऊर्मिकादिबुद्धौ सति । हेम नास्ति । तथेत्यर्थः ॥ ४,३१.२८ ॥

 

 

 

सङ्गृह्य कथयति

मिथ्याहन्तामयो मूढः सत्यैकात्ममयः सुधीः ।

युज्यते न क्वचिन्नाम स्वभावापह्नवोऽनयोः ॥ ४,३१.२९ ॥

मूढः अज्ञः । मिथ्याभूता या अहन्ता देहविषयः अहङ्कारः । तन्मयः भवति । सुधीः तज्ज्ञः । सत्यः सत्यभूतः । यः एकात्मा सर्वव्यापकः परमात्मा । तन्मयः भवति । नाम निश्चये । अनयोः मूढसुधियोः । स्वभावस्य मिथ्याहङ्काराख्यस्य परमार्थाख्यस्य च स्वरूपस्य । अपह्नवः अपलापः । क्वचित्न युज्यते । न हि पुरः स्फुरत्स्वस्वरूपं कश्चिदपह्नोतुं शक्नोति ॥ ४,३१.२९ ॥

 

 

 

एतदेव सदृष्टान्तमाह

यो यन्मयस्तस्य तस्मिन् युज्यतेऽपह्नवः कथम् ।

पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्ततैव हि ॥ ४,३१.३० ॥

यः पुरुषः । यन्मयः निश्चयद्वारेण यत्स्वरूपः स्यात् । तस्य पुरुषस्य । तस्मिन् स्वरूपे । अपह्नवः कथं स्यात् । हि यस्मात् । पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्तता एव भवति । अतः ब्रह्मात्मत्वे निश्चितस्य ज्ञस्य स्थूलदेहात्मत्वे निश्चितस्याज्ञस्य च स्वानुभूतेरपह्नवः न युक्त इति भावः ॥ ४,३१.३० ॥

 

 

 

प्रकृतं फलितत्वेनानुस्मरति

तस्मान्नेमे वयं सत्या न च दामादयः क्वचित् ।

असत्यास्ते वयं चेमे नास्ति नः खलु सम्भवः ॥ ४,३१.३१ ॥

यतः स्वप्रतीतिसिद्धमेवास्माकं दामादीनां च स्वरूपं तस्मात्ततो हेतोः । इमे वयं सत्याः न भवामः । दामादयश्च सत्याः न भवन्ति । प्रत्युत ते दामादयः । असत्याः भवन्ति । इमे वयं चासत्या भवामः । यतः नः स्थूलरूपाणामस्माकम् । सम्भवः सत्तायोग्यता । नास्ति । न हि प्रतीतिमात्रेणासद्वस्तु सद्भवितुमर्हति । शशशृङ्गादेरपि सत्त्वप्रसङ्गादिति भावः ॥ ४,३१.३१ ॥

 

 

 

ननु तर्हि तज्ज्ञस्यापि चिन्मात्राख्यं स्वरूपमस्मदादिवत्प्रतीतिसिद्धमेवास्तीति सोऽपि असदेव स्यादित्य् । अत्राह

सत्यसंवेदनं शुद्धं बोधालाशं निरञ्जनम् ।

सत्यं सर्वगतं शान्तमस्त्यनस्तमितोदयम् ॥ ४,३१.३२ ॥

सत्यं यत्संवेदनम् । तद्रूपं घटादिसंवेद्यादूषितसंवेदनरूपमिति यावत् । न हि घटादिसंवेद्योपहितस्य संवेदनस्य सत्यत्वं युक्तम् । संवेद्यनाशेन तस्यापि नष्टकल्पत्वात् । नापि संवेद्यस्य सत्यत्वं युक्तम् । प्रतीतिमात्रसारत्वात् । शुद्धं चेत्याख्यमलादूषितम् । अत एव निरञ्जनं निर्लेपम् । सत्यं सर्वसारत्वेन स्थितत्वात्सत्यं रूपम् । सर्वगतं साक्षितया सारत्वेन च स्थितत्वात्सर्वव्यापकम् । शान्तं स्वस्वरूपे विश्रान्तम् । अनस्तमितोदयं बोधाकाशं चिन्मात्राकाशम् । अस्ति परमार्थतः सत्तां भजति । अतः प्रतीतिमात्रसिद्धत्वाभावात्परमार्थसति चिन्मात्रस्वरूपे स्वतया निश्चितस्य ज्ञस्य नासत्यत्वमिति भावः ॥ ४,३१.३२ ॥

 

 

 

चिदात्मानमेव पुनः पुनः विशिनष्टि

सर्वं सत्तच्च निःशून्यं नकिञ्चिदिव संस्थितम् ।

तत्र व्योम्नि विभान्तीमा निजा भासोऽङ्ग दृष्टयः ॥ ४,३१.३३ ॥

सत्सर्वोपादनत्वेन स्थितत्वात्सत्स्वरूपम् । न हि असतुपादानीभवितुमर्हति । अत एव निःशून्यं शून्येतरस्वरूपम् । तथापि नकिञ्चितिव स्थितं बाह्यान्तःकरणागोचरत्वात्शून्यवत्तिष्ठत् । तत्चिन्मात्राख्यं वस्तु । सर्वं समस्तं जगत् । भवति । अत्र हेतुत्वेनोत्तरार्धं कथयति तत्रेति । यत इति शेषः । यतः तत्र व्योम्नि चिन्मात्राकाशे । इमाः पुरः स्फुरन्त्यः । दृष्टयः जगद्रूपाः प्रतीतयः । विभान्ति स्फुरन्ति । दृष्टयः काः । निजाः भासः निजानि कचकानि । न तु स्वव्यतिरिक्ता इत्यर्थः । सर्वसंवित्साक्षिकेण स्वप्नदृष्टान्ते एतत्स्वसिद्धमेवेति नात्रायस्तम् ॥ ४,३१.३३ ॥

 

 

 

एतदेव सदृष्टान्तं कथयति

यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः ।

केशोण्डुकादिवद्भान्ति तथेमास्तत्र सृष्टयः ॥ ४,३१.३४ ॥

यथा तैमिरिकाक्षस्य तिमिररोगोपहतनेत्रस्य पुरुषस्य । सहजाः एव । न त्वागन्तुकाः । दृष्टयः नेत्ररश्मयः । केशोण्डुकादिवत्केशकूर्चादिवत् । भान्ति स्फुरन्ति । तथा तत्र चिन्मात्राख्य आकाशे । इमाः सृष्टयः भान्ति । एता अपि चिन्मात्ररश्मिरूपा एवेति भावः । आदिशब्देन द्विचन्द्रादेः ग्रहणम् ॥ ४,३१.३४ ॥

 

 

 

ननु केन यत्नेन निजरश्मिरूपं जगदसौ करोतीत्य् । अत्राह

स आत्मानं यथा वेत्ति तथानुभवति क्षणात् ।

चिदाकाशस्ततोऽसत्यमपि सत्यं तदीक्षणात् ॥ ४,३१.३५ ॥

सः चिदाकाशः । आत्मानं स्वस्वरूपम् । यथा येन प्रकारेण युक्तम् । वेत्ति जानाति । तथा तेन प्रकारेण युक्तम् । अनुभवति साक्षात्पश्यति । अतः असत्यमपि जगत् । तदीक्षणात्चिदाकाशस्य वीक्षणात् । सत्यं भवति । स्वप्नजगदिव स्वप्नद्रष्ट्रा वीक्षणात् । अतो यत्नरहितमेवासौ एतत्करोतीति भावः ॥ ४,३१.३५ ॥

 

 

 

फलितं सिद्धान्तं कथयति

न सत्यमस्ति नासत्यमिह तस्माज्जगत्त्रये ।

यद्यथा वेत्ति चिद्रूपं तत्तथोदेत्यसंशयम् ॥ ४,३१.३६ ॥

तस्मात्ततो हेतोः । इह जगत्त्रये किञ्चित्न सत्यमस्ति नापि असत्यमस्ति । चिद्रूपं चिदात्म । यत्वस्तु । यथा वेत्ति । तत्तथा असंशयमुदेति । स्वप्नवदिति शेषः ॥ ४,३१.३६ ॥

 

 

 

अनेन फलितं दामादिसाम्यं स्वस्य कथयति

यथा दामादयस्तद्वदेवेमेऽभ्युदिता वयम् ।

सत्यासत्याः किमत्राङ्ग तान् प्रत्यपि विकल्पना ॥ ४,३१.३७ ॥

अत इति शेषः । अतः यथा दामादयः सत्यासत्याः भासमानत्वेन सत्याः परमार्थतस्त्वसत्याः । अभ्युदिताः प्रादुर्भूताः भवन्ति । इमे वयं तद्वदेव सत्यासत्याः अभ्युदिताः भवामः । तुल्यन्यायातिति भावः । हे अङ्ग । अतः अत्र इहलोके । तान् प्रत्यपि तान् प्रत्येव । विकल्पना सत्यत्वकल्पना । किमस्ति । यदि स्वसत्यं कल्पयसि तर्हि तानपि कुर्विति भावः ॥ ४,३१.३७ ॥

 

 

 

ननु कथं दामादीनामस्माकं च परस्परं साम्यमस्तीत्य् । अत्राह

अस्यानन्तस्य चिद्व्योम्नः सर्वगस्य निराकृतेः ।

चिदुदेति यथा यान्तस्तथा सा तत्र भात्यलम् ॥ ४,३१.३८ ॥

अस्यात्मत्वेन स्फुरतः । अनन्तस्य अन्तसाक्षित्वेनापि स्थितत्वादन्तरहितस्य । सर्वगस्य सर्वव्यापकस्य । निराकृतेः परिच्छिन्नाकाररहितस्य । चिद्व्योम्नः चिदाकाशस्य । सम्बन्धिनी या चित्चिदाख्यः स्पन्दः । अन्तः स्वभित्तौ । यथा येन रूपेण । उदेति स्फुरति । सा चित् । तत्र तस्यां चिन्मात्रभित्तौ । तथा तेन रूपेण । भाति कचति । स्वप्नवतिति शेषः ॥ ४,३१.३८ ॥

 

 

 

ननु तथापि किं प्रकृते आयातमित्य् । अत्राह

यत्र दामादिरूपेण संवित्प्रकचते स्वयम् ।

तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥ ४,३१.३९ ॥

तथाकारस्य दामाद्याकारस्य यानुभूतिः । ततः ॥ ४,३१.३९ ॥

 

 

 

अस्मदादिस्वरूपेण संविद्यत्रोदिता स्वयम् ।

तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥ ४,३१.४० ॥

तथाकारस्यास्मदाद्याकारस्य । या अनुभूतिः । ततः । तथा च दामादिभिः सहास्माकं साम्यमेवेति भावः ॥ ४,३१.४० ॥

 

 

 

स्वस्वप्नप्रतिभासस्य जगदित्यभिधा कृता ।

चिद्व्योम्नो व्योमवपुषस्तापस्येव मृगाम्बुता ॥ ४,३१.४१ ॥

व्योमवपुषः अत्यन्तशुद्धत्वाद्व्योमस्वरूपस्य । चिद्व्योम्नः सम्बन्धिनः । स्वः यः स्वप्नप्रतिभासः । तस्य जगदिति अभिधा जगदिति नाम । कृता । चिद्व्योम्नेति भावः । का इव । मृगाम्बुता इव । यथा तापस्य मृगाम्बुताम्बु इति नाम क्रियते । तथेत्यर्थः ॥ ४,३१.४१ ॥

 

 

 

ननु तर्हि सर्वं चिद्व्योम जगन्मयमेव किमस्तीत्य् । अत्राह

यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता ।

यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता ॥ ४,३१.४२ ॥

चिद्व्योम यत्र यस्मिन्नंशे । प्रबुद्धं जगद्रूपस्वपरामर्शयुक्तम् । भवति । तत्र तेनैव चिद्व्योम्नैव । दृश्याभिधा कृता । यत्र यस्मिन् भागे । सुप्तं जगद्रूपस्वरूपामर्शरहितम् । भवति । तत्र तेनैव मोक्षाभिधा कृता । तथा च न सर्वं चिद्व्योम जगत्समयेवास्तीति भावः ॥ ४,३१.४२ ॥

 

 

 

ननु तर्हि चिद्व्योम्नः सांशत्वमागतमित्य् । अत्राह

न च तत्क्वचिदासुप्तं न प्रबुद्धं कदाचन ।

चिद्व्योम केवलं दृश्यं जगदित्यवगम्यताम् ॥ ४,३१.४३ ॥

परमार्थविचारे क्रियमाणे तत्चिद्व्योम । क्वचित्कुत्राप्यंशे । कदाचन जातु । आसुप्तं न भवति । प्रबुद्धं च न भवति । तत्साक्षिकयोः स्वापप्रबोधयोः तद्व्यतिरेकेण सत्ताया अयोगात् । न च तदेव तस्य विशेषकं भवति । घटस्यापि घटविशेषकत्वप्रसङ्गात् । अतः परमार्थविचारयुक्तेन त्वया दृश्यं जगत्केवलं स्वापबोधादिधर्मरहितम् । चिद्व्योमेति अवगम्यतां ज्ञायताम् । प्रोक्तन्यायेन मोक्षजगत्त्वापादकयोः चिन्मात्राश्रययोः स्वापबोधयोरसम्भवात् ॥ ४,३१.४३ ॥

 

 

 

अत्यन्तरहस्यत्वात्पुनः पूर्वश्लोकपूर्वार्धोक्तमेवार्थं कथयति

निर्वाणमेव सर्गश्रीः सर्गश्रीरेव निर्वृतिः ।

नानयोः शब्दयोरर्थभेदः पर्याययोरिव ॥ ४,३१.४४ ॥

निर्वाणमचेत्यचिन्मात्रम् । निर्वृतिः निर्वाणम् । यथा तरङ्गजलयोः भेदो न युक्तः । तथा सर्गनिर्वाणयोरपि भेदो न युक्त इति भावः ॥ ४,३१.४४ ॥

 

 

 

ननु तर्हि जगदिति शब्दज्ञानयोः का गतिरित्य् । अत्राह

परमार्थे जगदिति रूपं वेत्ति स्वयं स्वकम् ।

यथा तैमिरिकं चक्षुः केशोण्डुकमिवेक्षितम् ॥ ४,३१.४५ ॥

असौ अचेत्यचिदात्मा परमार्थे परमार्थभूते स्वस्वरूपे । स्वयं जगदिति रूपं वेत्ति । जगद्रूपतां पश्यतीति यावत् । किमिव । चक्षुरिव । यथा तैमिरिकं तैमिरिकसम्बन्धि चक्षुः स्वकं रश्मिरूपं स्वात्मानम् । केशोण्डुकमिव वेत्ति । तथेत्यर्थः । स्वकं कथम्भूतम् । ईक्षितं स्वस्माद्बहिःप्रसरणेन दृष्टम् । अन्यथा अतीन्द्रियत्वहानेः । अतीन्द्रियं हि इन्द्रियं सर्वैरुक्तम् ॥ ४,३१.४५ ॥

 

 

 

ननु तर्हि केशोण्डुकवत्भासमानत्वात्जगत्किञ्चिदस्ति । तत्कथमस्य निर्वाणरूपत्वमुक्तमित्य् । अत्राह

न तत्केशोण्डुकं किञ्चित्सा हि दृष्टिस्तथा स्थिता ।

नैवं दृश्यमिदं किञ्चिदित्थं चिद्व्योम संस्थितम् ॥ ४,३१.४६ ॥

तत्भासमानम् । केशोण्डुकं किञ्चिदपि न भवति । हि यस्मात् । सा दृष्टिः तैमिरिकदृष्टिः । तथा केशोण्डुकरूपेण । स्थिता भवति । यतः सहस्रशः अन्विष्यमाणमपि केशोण्डुकं हस्तग्राह्यं न भवति । न चान्यत्तत्र तदधिष्ठानत्वयोग्यं वस्त्वस्ति । अतो ज्ञायते दृष्टिरेव तथात्वेन भासते इति भावः । प्रोक्तं न्यायं प्रकृतेऽपि सङ्घटयति नैवमिति । एवमिदं जगत् । किञ्चित्न भवति । चिद्व्योम चिदाकाशम् । इत्थं जगद्रूपेण । संस्थितं भवति । स्वप्ने हि चिद्व्योम्नः जगद्रूपेण संस्थितिर्दृष्टा । अतो न विरोध इति भावः ॥ ४,३१.४६ ॥

 

 

 

सिद्धान्तं कथयति

सर्वत्र सर्वमिदमस्ति यथानुभूतं

नो किञ्चन क्वचिदिहास्ति च नानुभूतम् ।

शान्तं सदेकमिदमाततमित्थमास्ते

सन्त्यक्तशङ्कमपभेदमतस्त्वमास्स्व ॥ ४,३१.४७ ॥

यथानुभूतमेवमेव नानात्वेनानुभूतम् । इदं सर्वं सर्वत्रास्ति । भासमानत्वात् । नानुभूतमनुभवविषयतामगतं सत् । क्वचित्कुत्रचिदपि देशे । किञ्चित्लेशेनापि । नो अस्ति । अभासमानत्वात् । अनुभूतत्वमननुभूतत्वं च जगतः जाग्रदादौ सुषुप्तादौ च सर्वेषां स्वप्रतीतिसाक्षिकमेवेति । नात्रायासो युक्तः । ननु तर्हि सर्वदा सत्किमस्तीत्य् । अत्राह शान्तमिति । शान्तमनुभवितृत्वेन स्थितत्वातनुभूतत्वाननुभूतत्वाख्यविकाररहितम् । एकमद्वितीयम् । आततं समन्तात्व्यापकम् । इदमात्मत्वेन पुरः स्फुरत् । इत्थमनुभूतत्वाननुभूतत्वविकारग्रस्तजगद्रूपत्वेन स्फुरदिति शेषः । सत्सन्मात्राख्यं वस्तु । आस्ते सर्वदा तिष्ठति । अननुभूतत्वावस्थायामपि स्वाननुभूत्यनुभवितृत्वेन स्थितत्वात् । फलितं कथयति सन्त्यक्तेति । अतः त्वं सन्त्यक्तशङ्कं जगत्सत्यत्वशङ्कारहितम् । अभेदं भेदबुद्धिरहितम् । आस्स्व तिष्ठ ॥ ४,३१.४७ ॥

 

 

 

सर्गान्तश्लोकेनाप्येतदेव कथयति

शिलोदराकारघनं प्रशान्तम्

महाचितो रूपमिदं खमच्छम् ।

नैवास्ति नास्तीति दृशौ क्वचित्स्तो

यच्चास्ति तत्साधु तदेव भाति ॥ ४,३१.४८ ॥

इदमच्छं खं नकिञ्चिद्रूपत्वात्निर्मलं जगदाख्यमाकाशम् । महाचितः रूपं स्वरूपम् । भवति । महाचितः रूपं कथम्भूतम् । शिलोदरस्य यः आकारः । तद्वद्घनम् । चिद्घनमित्यर्थः । अत एव प्रशान्तं चेत्याख्यक्षोभरहितम् । स्वप्नजगतः स्फुटं चिन्मात्ररूपत्वदर्शनादिति भावः । ननु तर्हि भावाभावबुद्धिः कथमस्तीत्य् । अत्राह नैवास्तीति । अस्ति नास्तीति दृशौ भावाभावबुद्धी । क्वचित्नैव स्तः । आभासमात्ररूपत्वादित्यर्थः । ननु तथापि कथं भासमानयोः भावाभावयोः अपह्नवः कर्तुं शक्यत इत्य् । अत्राह यच्चास्तीति । यच्च भावाभावरूपं किञ्चित्त्वद्दृष्ट्या अस्ति । तत्साधु सम्यक् । तदेव महाचिद्रूपमेव । अस्ति । तद्विना साक्षिरहितस्य तस्यासत्कल्पत्वात् । तत्प्रतीतिसिद्धत्वे तु स्वप्नपदार्थवत्तत्त्वानपायाच्चेति शिवम् ॥ ४,३१.४८ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरण एकत्रिंशः सर्गः ॥३१॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ३१