महाभारतम्-09-शल्यपर्व-037

From HinduismPedia
Revision as of 21:55, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:महाभारतम्/शल्यपर्व

एकतद्वितत्रितनामकानां विप्राणां कथा।। 1 ।।

वैशम्पायन उवाच। 9-37-1x
तस्मान्नदीगतं चापि ह्युदपानं यशस्विनः।
त्रितस्य च महाराज जगामाथ हलायुधः।।
9-37-1a
9-37-1b
तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा द्विजान्।
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः।।
9-37-2a
9-37-2b
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः।
कूपे च वसता तेन सोमः पीतो महात्मना।।
9-37-3a
9-37-3b
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान्।
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः।।
9-37-4a
9-37-4b
जनमेजय उवाच। 9-37-5x
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः।
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम।।
9-37-5a
9-37-5b
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान्।
कथं च याजयामास पपौ सोमं च वै कथम्।
एतदाचक्ष्व मे ब्रह्मन्श्रोतव्यं यदि मन्यसे।।
9-37-6a
9-37-6b
9-37-6c
वैशम्पायन उवाच। 9-37-7x
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः।।
9-37-7a
9-37-7b
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च।
ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः।।
9-37-8a
9-37-8b
तेषां तु तपसा प्रीतो नियमेन दमेन च।
अभवद्गौतमो नित्यं पिता धर्मरतः सदा।।
9-37-9a
9-37-9b
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च।
जगाम भगवान्स्थानमनुरूपमिवात्मनः।।
9-37-10a
9-37-10b
राजानस्तस्य ये ह्यासन्याज्या राजन्महात्मनः।
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन्।।
9-37-11a
9-37-11b
तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च।
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा।।
9-37-12a
9-37-12b
तथा सर्वे महाभागा मुनयः पुण्यलक्षणाः।
अपूजयन्महाभागं यथास्य पितरं तथा।।
9-37-13a
9-37-13b
कदाचिद्वि ततो राजन्भ्रातरावेकतद्वितौ।
यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च।।
9-37-14a
9-37-14b
तयोर्बुद्धिः समभवत्त्रितं गृह्य परन्तप।
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः।
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्।।
9-37-15a
9-37-15b
9-37-15c
चक्रुश्चैवं तथा राजन्भ्रातरस्त्रय एव च।
यथा ते तु परिक्रम्य याज्यान्सर्वान्पशून्प्रति।
याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून्पशून्।।
9-37-16a
9-37-16b
9-37-16c
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः।
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः।।
9-37-17a
9-37-17b
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत्।
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून्।।
9-37-18a
9-37-18b
तयोश्चिन्ता समभवदेकतस्य द्वितस्य च।
कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम्।।
9-37-19a
9-37-19b
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह।
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर।।
9-37-20a
9-37-20b
त्रितो यज्ञेषु कुशलस्तथा वेदेषु निष्ठितः।
ततस्त्रितो बहुतरं गावः समुपलप्स्यते।।
9-37-21a
9-37-21b
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे।
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृताः।।
9-37-22a
9-37-22b
वैशम्पायन उवाच। 9-37-23x
तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत्।
तत्र कूपो विदूरेऽभूत्सरस्वत्यास्तटे महान्।।
9-37-23a
9-37-23b
अथं त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः।
तद्भ्यादपसर्पन्वै तस्मिन्कूपे पपात ह।
अगाधे सुमहाघोरे सर्वभूतभयङ्करे।।
9-37-24a
9-37-24b
9-37-24c
त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः।
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी।।
9-37-25a
9-37-25b
त ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ।
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः।।
9-37-26a
9-37-26b
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः।
उदपाने तदा राजन्निर्जले पांसुपंवृते।।
9-37-27a
9-37-27b
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते।
निमग्नं भरतश्रेष्ठ नरके दुष्कृती यथा।।
9-37-28a
9-37-28b
ततो ह्यचिन्तयत्प्राज्ञो मृतभूतो ह्यसोमपः।
सोमः कथं तु पातव्य इहस्थेन मया भवेत्।।
9-37-29a
9-37-29b
स एवमभिसञ्चिन्त्य तस्मिन्कूपे महातपाः।
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया।।
9-37-30a
9-37-30b
पांसुग्रस्ते ततः कूपे न्यखनत्सलिलं मुनिः।
अग्नीन्सङ्कल्पयामास होतॄनात्मानमेव च।।
9-37-31a
9-37-31b
ततस्तां वीरुधं सोमं सङ्कल्प सुमहातपाः।
ऋचो जयूंषि सामानि मनसा चिन्तयन्मुनिः।।
9-37-32a
9-37-32b
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप।
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम्।।
9-37-33a
9-37-33b
सोमस्याभिषवस्याग्रे प्रवृत्तस्तुमुलो ध्वनिः।
स चाविशद्दिवं राजन्स्वरश्चैव त्रितस्त वै।।
9-37-34a
9-37-34b
समवाप च तं यज्ञां यथोक्तं ब्रह्मवादिभिः।। 9-37-35a
वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः।
आविग्नं त्रिदिवं सर्वं कारमं च न बुध्यते।।
9-37-36a
9-37-36b
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः।
श्रुत्वा चैवाब्रवीत्सर्वान्देवान्देवपुरोहितः।।
9-37-37a
9-37-37b
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः।
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः।।
9-37-38a
9-37-38b
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः।
प्रययुस्तत्र यत्रास्ते त्रितयज्ञश्च वर्तते।।
9-37-39a
9-37-39b
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः।
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु।।
9-37-40a
9-37-40b
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम्।
ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम्।।
9-37-41a
9-37-41b
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः।
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम्।।
9-37-42a
9-37-42b
ततस्त्रितो महाराज भागांस्तेषां यथाविधि।
मन्त्रयुक्तान्समददात्तेन प्रीतास्तदाऽभवन्।।
9-37-43a
9-37-43b
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः।
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति।।
9-37-44a
9-37-44b
स तु वव्रे लवरं देवांस्त्रातुमर्हथ मामितः।
यश्चाम्भोपस्पृशेत्कूपे स सोमपगतिं लभेत्।।
9-37-45a
9-37-45b
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती।
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः।।
9-37-46a
9-37-46b
तथेति चोक्त्वा विबुधा जग्मू राजन्यथाऽऽगताः।
त्रितश्चाभ्यागमत्प्रीतः स्वमेव निलयं तदा।।
9-37-47a
9-37-47b
क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा।
उवाच परुषं वाक्यं शशाप च महातपाः।।
9-37-48a
9-37-48b
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ।
तस्माद्वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ।।
9-37-49a
9-37-49b
भवितारौ मया शप्तौ पापेनानेन कर्मणा।
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः।।
9-37-50a
9-37-50b
इत्युक्तेन तदा तेन क्षणादेव विशाम्पते।
तथाभूतावदृश्येतां वचनात्सत्यवादिनः।।
9-37-51a
9-37-51b
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः।
दत्त्वाच विविधान्देयान्पूजयित्वा च वै द्विजान्।।
9-37-52a
9-37-52b
उदपानं च तं वीक्ष्य प्रशस्य च पुनःपुनः।
नदीगतमदीनात्मा प्राप्तो विनशनं तदा।।
9-37-53a
9-37-53b
।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि सप्तत्रिंशोऽध्यायः।। 37 ।।

9-37-6 याजयामास स्वार्थे णिच् यागं कृतवान्।। 9-37-8 सर्वे प्रजापतिसुताः प्रजापतय एव च इति क.पाठः।। 9-37-16 पशून्प्रतिपश्वर्थम्। दक्षिणार्था गाः प्राप्तुमित्यर्थः।। 9-37-18 त्रितश्चाकालयन्पशून् इति क.पाठः।। 9-37-23 पथिस्थाने वृकोऽभवदिति क.ङ.पाठः।। 9-37-45 यश्चेहोपस्पृशेदिति झ.पाठः।। 9-37-37 सप्तत्रिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/शल्यपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-09-शल्यपर्व-037