महाभारतम्-07-द्रोणपर्व-049

From HinduismPedia
Revision as of 21:47, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

अभिमन्युवधः।। 1 ।।

सञ्जय उवाच। 5-49-1x
विष्णोः स्वसुर्नन्दकरः स विष्ण्वायुधभूषणः।
रराजातिरथः सङ्ख्ये जनार्दन इवापरः।।
5-49-1a
5-49-1b
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम्।
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि।।
5-49-2a
5-49-2b
`यदि पाणितलादेतच्चक्रं मुञ्चेत फाल्गुनिः।
वरदानान्मातुलस्य विष्णोश्चक्रमिवापतेत्'।।
5-49-3a
5-49-3b
तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा।
महारथस्ततः कार्ष्मिः स जग्राह महागदाम्।।
5-49-4a
5-49-4b
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः।
अभिमन्युर्गदापाणिरश्वत्थामानमार्दयत्।।
5-49-5a
5-49-5b
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव।
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः।।
5-49-6a
5-49-6b
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी।
शराचिताङ्गः सौभद्रः श्वाविद्वत्समदृश्यत।।
5-49-7a
5-49-7b
ततः सुबलदायादं कालिकेयमपोथयत्।
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम्।।
5-49-8a
5-49-8b
पुनश्चैव वसातीयाञ्जघान रथिनो दश।
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान्।
दौःशासनिरथं साश्वं गदया समपोथयत्।।
5-49-9a
5-49-9b
5-49-9c
ततो दौःशसनिः क्रुद्धो गदामुद्यम्य मारिष।
अभिदुद्राव सौभद्रं तिष्ठतिष्ठेति चाब्रवीत्।।
5-49-10a
5-49-10b
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ।
भ्रातृव्यौ सम्प्रजहाते पुरेव त्र्यम्बकान्धकौ।।
5-49-11a
5-49-11b
तावन्योन्यं गदाग्राभ्यामाहत्य पतितौ क्षितौ।
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ।।
5-49-12a
5-49-12b
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः।
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत्।।
5-49-13a
5-49-13b
गदावेगेन महता व्यायामेन च मोहितः।
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा।।
5-49-14a
5-49-14b
एवं विनिहतो राजन्नेको बहुभिराहवे।
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः।।
5-49-15a
5-49-15b
अशोभत हतो वीरो व्याधैर्वनगजो यथा।
तं तथा पतितं शूरं तावकाः पर्यवारयन्।।
5-49-16a
5-49-16b
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये।
विमृद्व्य नगशृङ्गाणि सन्निवृत्तमिवानिलम्।।
5-49-17a
5-49-17b
अस्तिं गतमिवादित्यं तप्त्वा भारत वाहिनीम्।
उपप्लुतं यथा सोमं संशुष्कमिव सागस्म्।।
5-49-18a
5-49-18b
पूर्णचन्द्राभवदनं काकपक्षवृतालिकम्।
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः।
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः।।
5-49-19a
5-49-19b
5-49-19c
आसीत्परमको हर्षस्तावकानां विशाम्पते।
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम्।।
5-49-20a
5-49-20b
अन्तरिक्षे च भूतानि प्राक्रोशन्त विशाम्पते।
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात्।।
5-49-21a
5-49-21b
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः।
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः।।
5-49-22a
5-49-22b
तस्मिन्विनिहते वीरे बह्वशोभत मेदिनी।
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी।।
5-49-23a
5-49-23b
रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता।
उत्तमाङ्गैश्च शूराणां भ्राजमानैः सकुण्डलैः।।
5-49-24a
5-49-24b
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता।
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः।।
5-49-25a
5-49-25b
रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः।
खङ्गैः सुनिशितैः पीतैर्निर्मुक्तैर्भुजगैरिव।।
5-49-26a
5-49-26b
चापैश्च विविधैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः।
विविधैश्चायुधैश्चान्यैः संवृता भूरशोभत।।
5-49-27a
5-49-27b
`निष्टनद्भिरतीवान्यैरुद्वहद्रुधिरस्रवैः।
नरैः पतद्भिः पतितैरवनी स्वधिकं बभौ।।
5-49-28a
5-49-28b
वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोणितोक्षितैः।
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः।।
5-49-29a
5-49-29b
साङ्कुशैः समहामात्रैः सर्वमायुधकेतुभिः।
पर्वतैरिव विध्वस्तैर्विशिखैर्मथितैर्गजैः।।
5-49-30a
5-49-30b
पृथिव्यानुकीर्णैश्च अश्वसारथियोधिभिः।
हदैरिव प्रक्षुभितैर्हृतनागै रथोत्तमैः।।
5-49-31a
5-49-31b
पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः।
भीरूणां त्रासजननी घोररूपाऽभवन्मही।।
5-49-32a
5-49-32b
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्।
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा।।
5-49-33a
5-49-33b
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने।
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः।।
5-49-34a
5-49-34b
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते।
अजातशत्रुस्तान्वीरानिदं वचनमब्रवीत्।।
5-49-35a
5-49-35b
स्वर्गमेष गतः शूरो यो हतो न पराङ्मुखः।
संस्तम्भयत माभैष्ट विजेष्यामो रणे रिपून्।।
5-49-36a
5-49-36b
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः।
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत्।।
5-49-37a
5-49-37b
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे रिपून्।
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरभ्ययात्।।
5-49-38a
5-49-38b
हत्वा दशसहस्राणि कौसल्यं च महारथम्।
कृष्णार्जुनसमः कार्ष्णिः शक्रलोकं गतो ध्रुवम्।।
5-49-39a
5-49-39b
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः।
अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत्।
5-49-40a
5-49-40b
गतः पुण्यकृतां लोकाञ्शाश्वतान्पुण्यनिर्जितान्।। 5-49-41a
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे एकोनपञ्चाशत्तमोऽध्यायः।। 49 ।।

5-49-18 उपप्लुतं राहुग्रस्तम्।। 5-49-19 काकपक्षावृताक्षिकं इति झ पाठः।। 5-49-30 विशाखोन्मथितैर्गजैः इति क.पाठः।। 5-49-31 व्यश्वसारथियोधिभिः इति क.पाठः।। 5-49-49 एकोनपञ्चाशत्तमोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-049