महाभारतम्-02-सभापर्व-041

From HinduismPedia
Revision as of 21:26, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:महाभारतम्/सभापर्व

शिशुपालं सान्त्वयन्तं युधिष्ठिरं निवार्य भीष्णेण श्रीकृष्णमाहात्म्यकथनम् ।। 1।।

वैशम्पायन उवाच। 2-41-1x
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्।
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः।।
2-41-1a
2-41-1b
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्।
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम्।।
2-41-2a
2-41-2b
न हि धर्मं परं जातु नावबुध्येत पार्थिवः।
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा।।
2-41-3a
2-41-3b
पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून्।
मृष्यन्ते चार्हणां कृष्णे तद्वत्वं क्षन्तुमर्हसि।।
2-41-4a
2-41-4b
वेद तत्त्वेन कृष्णं हि भीष्णश्चेदिपते भृशम्।
न ह्येनं त्वं तथा यथैनं वेद कौरवः।।
2-41-5a
2-41-5b
भीष्म उवाच। 2-41-6x
नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम्।
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते।।
2-41-6a
2-41-6b
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः।
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः।।
2-41-7a
2-41-7b
अस्यां हि समितौ राज्ञामेकमप्यजितं युधि।
न पश्यामि महीपालं सात्वतीपुत्रतेजसा।।
2-41-8a
2-41-8b
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः।
त्रयाणामपि लोकानामर्चनीयो महाभुजः।।
2-41-9a
2-41-9b
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः।
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम्।।
2-41-10a
2-41-10b
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्।
एवं वक्तुं न चार्हस्त्वं मा तेऽभूद्बुद्धिरीदृशी।।
2-41-11a
2-41-11b
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः।
`यस्य राजन्प्रभावज्ञाः पुरा सर्वे च रक्षिताः'।
तेषां कथयतां शौरेरहं गुणवतो गुणान्।।
2-41-12a
2-41-12b
2-41-12c
समागतानामश्रौषं बहून्बहुमतान्सताम्।
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः।।
2-41-13a
2-41-13b
बहृशः कथ्यमानानि नरैर्भूयः श्रुतानि मे।
न केवलं वयं कामाच्चेदिगज जनार्दनम्।।
2-41-14a
2-41-14b
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन।
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम्।।
2-41-15a
2-41-15b
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे
न च कश्चिदिहास्माभिः सुवालोप्यपरीक्षितः।।
2-41-16a
2-41-16b
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः।
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः।।
2-41-17a
2-41-17b
वैश्यानां धान्यधनवाञ्शूद्राणामेव जन्मतः।
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ।।
2-41-18a
2-41-18b
वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा।
नृणां लोके हि कोऽन्योस्ति विशिष्टः केशवादृते।।
2-41-19a
2-41-19b
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा।
संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताऽच्युते।।
2-41-20a
2-41-20b
तमिमं लोकसम्पन्नमाचार्यं पितरं गुरुम्।
अर्घ्यमर्चितमर्चामः सर्वे सङ्क्षन्तुमर्हथ।।
2-41-21a
2-41-21b
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः।
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः।।
2-41-22a
2-41-22b
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः।
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम्।।
2-41-23a
2-41-23b
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः।
परश्च सर्वभूतेभ्यस्तस्मात्पूज्यतमोऽच्युतः।।
2-41-24a
2-41-24b
द्धिर्मनो महद्वायुस्तेजोऽभः खं मही च या।
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम्।।
2-41-25a
2-41-25b
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये।
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्।।
2-41-26a
2-41-26b
` एष रुद्रश्च सर्वात्मा ब्रह्मा चैव सनातनः।
अक्षरं क्षररूपेण मानुषत्वमुपागतः'।।
2-41-27a
2-41-27b
अग्निहोत्रमुखा वेदा गायत्री च्छन्दसां मुखम्।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम्।।
2-41-28a
2-41-28b
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्।
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम्।।
2-41-29a
2-41-29b
ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः।
सदेवकेषु लोकेषु भगवान्केशवो मुखम्।।
2-41-30a
2-41-30b
अयं तु पुरुषो बालः शिशुपालो न बुध्यते।
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते।।
2-41-31a
2-41-31b
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः।
स वै पश्येद्यथा धर्मं न तथा चेदिराडयम्।।
2-41-32a
2-41-32b
सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु।
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्।।
2-41-33a
2-41-33b
अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति।
दुष्कृतायां यथान्यायं तथाऽयं कर्तुमर्हति।।
2-41-34a
2-41-34b
।। इति श्रीमन्महाभारते सभापर्वणि
अर्घाहरणपर्वणि एकचत्वारिंशोऽध्यायः।। 41 ।।

टिप्पणी

2-41-25 चतुर्विधं जरायुजादि भौतिकम्।। Template:Footer

वर्गः:महाभारतम्/सभापर्व

Page is sourced from

sa.wikisource.org महाभारतम्-02-सभापर्व-041