नाट्यशास्त्रम्/अध्यायः ९

From HinduismPedia
Revision as of 19:29, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:नाट्यशास्त्रम्


॥ नाट्यशास्त्रम् अध्याय ९ ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ षष्ठोऽध्यायः ।
अथ नवमोऽध्यायः ।
एवमेतच्छिरोनेत्रभ्रुनासोष्ठकपोलजम् ।
कर्म लक्षणसंयक्तमुपाङ्गानां मयोदितम् ॥ १॥

हस्तोरपार्श्वजठरकटीजङ्घोरुपादतः ।
लक्षणं सम्प्रवक्ष्यामि विनियोगं च तत्त्वतः ॥ २॥

हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रयोजकम्
यथा येनाभिनेयं च तन्मे निगदतः शृणु ॥ ३॥

पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः ।
अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च ॥ ४॥

मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः ।
सूच्यास्यः पद्मकोशश्च तथा वै सर्पशीर्षकः ॥ ५॥

मृगशीर्षः परो ज्ञेयो हस्ताभिनययोक्तृभिः ।
काङ्गुलकोऽलपद्मश्च चतुरो भ्रमरस्तथ ॥ ६॥

हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा ।
ऊर्णनाभस्ताम्रचूडचतुर्विंशतिरीरिताः ॥ ७॥

असंयुताः संयुताश्च गदतो मे निबोधत ।
अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ ८॥

खटकावर्धमानश्च ह्युत्सङ्गो निषधस्तथा ।
दोलः पुष्पपुटश्चैव तथा मकर एव च ॥ ९॥

गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च ।
एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश ॥ १०॥

नृत्तहस्तानतश्चोर्ध्व गदतो मे निबोधत ।
चतुरस्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ ॥ ११॥

स्वस्तिकौ विप्रकीर्णौ चाप्यरालखटकामुखौ ।
आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ ॥ १२॥

उत्तानावञ्चितौ वापि पल्लवौ च तथा करौ ।
नितम्बौ चापि विज्ञेयौ केशबन्धौ तथैव च ॥ १३॥

सम्प्रोक्तौ करिहस्तौ च लताख्यौ च तथैव च ।
पक्षवञ्चितकौ चैव पक्षप्रद्योतकौ तथा ॥ १४॥

ज्ञेयो गरुडपक्षौ च हंसपक्षौ तथैव च ।
ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा ॥ १५॥

उरोमण्डलिनौ चैव उरःपार्श्वार्धमण्डलौ ।
मुष्टिकस्वस्तिकौ चापि नलिनीपद्मकोशकौ ॥ १६॥

अलपद्मावुल्बनौ च ललितौ वलितौ तथा ।
सप्तषष्टिकरा ह्येते नामतोऽभिहिता मया ॥ १७॥

यथा लक्षणमेतेषां कर्माणि च निबोधत ।
प्रसारिताः समाः सर्वा यस्याङ्गुल्यो भवन्ति हि ।
कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥ १८॥

एष प्रहारपाते प्रतापन नोदने प्रहर्षे च ।
गर्वेऽप्यहमिति तज्ज्ञैललाटदेशोत्थितः कार्यः ॥ १९॥

एषोऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च ।
संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः ॥ २०॥

स्वस्तिकविच्युतिकरणात् पल्लवपुष्पोपहारशष्पाणि ।
विरचितमुर्वीसंस्थं यद् द्रव्य तच्च निर्द्देश्यम् ॥ २१॥

स्वस्तिकविच्युतिकरणात् पुनरेवाधोमुखेन कर्तव्यम् ।
संवृतविवृतं पाल्यं छन्नं निबिडं च गोप्यं च ॥ २२॥

अस्यैव चाङ्गुलीभिरधोमुखप्रस्थितोत्थितचलाभिः ।
वायूर्मिवेगवेलाक्षोभश्चौघश्च कर्तव्यः ॥ २३॥

उत्साहनं बहु तथा महाजनप्रांशुपुष्करप्रहतम् ।
पक्षोत्क्षेपाभिनयं रेचककरणेन चाभिनयेत् ॥ २४॥

परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्टे च ।
पुनरेव शैलधारणमुद्घाटनमेव चाभिनयेत् ॥ २५॥

एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः ।
पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः ॥ २६॥

दशाख्यश्च शताख्यश्च सहस्राख्यस्तथैव च ।
अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् ॥ २७॥

पताके तु यदा वक्राऽनामिका त्वङ्गुलिर्भवेत् ।
त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत ॥ २८॥

आवाहनमवतरणं विसर्जनं वारणं प्रवेशश्च ।
उन्नामनं प्रणामो निदर्शनं विविधवचनं च ॥ २९॥

मङ्गल्यद्रव्याणां स्पर्शः शिरसोऽथ सन्निवेशश्च ।
उष्णीषमुकुटधारणं नासास्यश्रोत्रसंवरणम् ॥ ३०॥

अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् ।
लघुपवनस्रोतोभुजगभ्रमरादिकान् कुर्यात् ॥ ३१॥

अश्रुप्रमार्जने तिलकविरचनं रोचनयालम्भकं च
त्रिपताकानामिकया स्पर्शनमलकस्य कार्यञ्च ॥ ३२॥

स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने ।
विच्युतौ चलितावस्थौ कार्यावुद्वाहदर्शने ॥ ३३॥

परस्पराग्रसंश्लिष्टौ कर्तव्यौ नृपदर्शने ।
तिर्यक् स्वस्तिकस्म्बद्धौ स्यातां तौ ग्रहदर्शने ॥ ३४॥

तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ ।
परस्पराभिमुखौ च कर्तव्यौ वरदर्शने ॥ ३५॥

उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ ।
वडवानलसङ्ग्राममकराणां च दर्शने ॥ ३६॥

अभिनयास्त्वनेनैअव वानरप्लवनोर्मयः ।
पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः ॥ ३७॥

सम्मुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने ।
पराङ्ग्मुखस्तु कर्तव्यो याने नृणां प्रयोक्तृभिः ॥ ३८॥

त्रिपताके यदा हस्ते भवेत् पृष्ठावलोकनी
तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥ ३९॥

पथि चरणरचनरञ्जनरङ्गणकरणान्यधोमुखेनैव ।
ऊर्ध्वमुखेन तु कुर्यात् दष्टं शृङ्गं च लेख्यं च ॥ ४०॥

पतनमरणव्यतिक्रमपरिवृत्तवितर्कित तथ न्यस्तम् ।
भिन्नवलितेन कुर्यात् कर्तर्यास्याङ्गुलिमुखेन ॥ ४१॥

संयुतकरणो व स्यादसंयुतो वा प्रयुज्यते तज्ज्ञैः ।
रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु ॥ ४२॥

यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् ।
सोऽर्धचन्द्रो हि विज्ञेयः करः कर्मास्य वक्ष्यते ॥ ४३॥

एतेन बालतरवः शशिलेखाम्बुकलशवलयानि ।
निर्घाटनमायस्तं मध्यौपम्यं च पीनं च ॥ ४४॥

रशनाजघनकटीनामाननतलपत्रकुण्डलादीनाम् ।
कर्तव्यो नारीणामभिनययोगोऽर्धचन्द्रेण ॥ ४५॥

आद्या धनुर्नता कार्या कुञ्चिताङ्गुष्ठकस्तथा ।
शेषा भिन्नोर्ध्ववलिता ह्यरालेऽङ्गुलयः करे ॥ ४६॥

एतेन सत्त्वशौण्डीर्यवीर्यधृतिकान्तिदिव्यगाम्भीय्रम् ।
आशीर्वादाश्च तथा भावा हितसन्ज्ञकाः कार्याः ॥ ४७॥

एतेन पुनः स्त्रीणां केशानां सङ्ग्रहोत्कर्षौ ।
सर्वाङ्गिकं तथैव च निर्वर्णनमात्मनः कार्यम् ॥ ४८॥

कौतुकविवाहयोगं प्रदक्षिणेनैव सम्प्रयोगं च ।
अङ्गुल्यग्रस्वस्तिकयोगान् परिमण्डलेनैव ॥ ४९॥

प्राद्क्षिण्य< परिमण्डलं च कुर्यान् महाजनं चैव ।
यच्च महीतलरचितं द्रव्यं तच्चाभिनेयं स्यात् ॥ ५०॥

आह्वाने च निवारणनिर्माणे चाप्यनेकवचने च ।
स्वेदस्या चापनयने गन्धाघ्राणे शुभः शुभे चैष ॥ ५१॥

त्रिपताकहस्तजानि तु पूर्वं यान्यभिहितानि कर्माणि ।
तानि त्वरालयोगात् स्त्रीभिः सम्यक् प्रयोज्यानि ॥ ५२॥

अरालस्य यदा वक्राऽनामिकात्वङ्गुलिर्भवेत् ।
शुकतुण्डस्तु स करः कर्म चास्य निबोधत ॥ ५३॥

एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति चार्ये ।
आवाहने विसर्गे धिगिति वचने च सावज्ञम् ॥ ५४॥

अङ्गुल्यो यस्य हस्तस्य तलमध्येग्रसंस्थिताः ।
तासामुपरि चाङ्गुष्ठः सः मुष्टिरिति सन्ज्ञितः ॥ ५५॥।

एष प्रहारे व्यायामे निर्गमे पीडने तथा ।
संवाहनेऽसियष्टीनां कुन्तदण्डग्रहे तथा ॥ ५६॥

अस्यैव तु यदा मुष्टेरूर्ध्वोङ्गुष्ठः प्रयुज्यते ।
हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ५७॥

रश्मिकुशाङ्कुशधनुषां तोमरशक्तिप्रमोक्षणे चैव ।
अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणं चैव ॥ ५८॥

अस्यैव शिखराख्यस्य ह्यङ्गुष्ठकनिपीडिता ।
यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः ॥ ५९॥

असिचापचक्रतोमरकुन्तगदाशक्तिवज्रबाणानि ।
शस्त्राण्यभिनेयानि तु कार्यं सत्यं च पथ्यं च ॥ ६०॥

उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी ।
अस्यैव तु कपित्थस्य तदासो खटकामुखः ॥ ६१॥

होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकञ्च ।
आदर्शधारणं खण्डनं तथा पेषणं चैव ॥ ६२॥

आयतदण्डग्रहणं मुक्ताप्रालम्बसङ्ग्रहं चैव ।
स्रग्दामपुष्पमाला वस्त्रान्तालम्बनं चैव ॥ ६३॥

मन्मथशरावकर्ष्णपुष्पवचयप्रतोदकार्याणि ।
अङ्कुशरज्वाकर्षणस्त्रीदर्शनमेव कार्यं च ॥ ६४॥

खटकाख्ये यदा हस्ते तर्जनी सम्प्रसारिता ।
हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ६५॥

अस्य विविधान् योगान् वक्ष्यामि समासतः प्रदेशिन्याः ॥

ऊर्ध्वनतलोलकम्पितविजृम्भितोद्वाहितचलायाः ॥ ६६॥

चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्चैव ।
कुटिलगतयश्च सर्वे निर्देश्याः साधुवादाश्च ॥ ६७॥

बालोरगबल्यवधूपदीपवल्लीलताशिखण्डाश्च ।
परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया ॥ ६८॥

वदनाम्यासे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या ।
भूयश्चोर्ध्वविरचिता ताराघोणैकदण्डयष्टिषु च ।
विनताः च पुनः कार्या दंष्ट्रिषु च तथास्ययोगेन ॥ ६९॥

पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य ।
प्रणतोन्ती च कार्ये ह्याद्ये दीर्घे च दिवसे च ॥ ७०॥

[श्रवणाभ्यासे वक्रा विजृम्भणा वाक्यरूपणावसरे ॥]
मेति वदेति च योज्या प्रसारितोत्कम्पितोत्ताना ॥ ७१॥

कार्या प्रकम्पित रोवदर्शन स्वेदरूपणे चैव ।
कुन्तलकुण्डलाङ्गदगण्डाश्रयेऽभिनय ॥ ७२॥

गर्वेऽहमिति ललाटे रिपुदर्शने तथैव च क्रोधे ।
कोऽसाविति निर्देशेऽथ कर्णकण्डुनयने चैव ॥ ७३॥

संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च ।
कलहे स्वस्तिकयुपतां परस्परोत्पीडिता बन्धे ॥ ७४॥

द्वाभ्यां तु वात्मपार्श्वे दक्षिणतो निननिशावसानानि ।
अभिमुखपराङ्मुखाभ्यां विश्लिष्टाभ्यां प्रयुञ्जीत ॥ ७५॥

पुनरपि च भ्रमिताग्ररूपा शिलावर्तयन्त्रशैलेषु ।
परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम् ॥ ७६॥

श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे कर्या ।
शकस्याप्युत्ताना तज्ज्ञैस्तिर्यक्स्थिता कार्या ॥ ७७॥

द्वाभ्यां सन्दर्शयेन्नित्यं सम्पूर्ण चन्द्रमण्डलम् ।
श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया ॥ ७८॥

परिमण्डलं भ्रमिततया मण्डलमादर्शयेच्च चन्द्रस्य ।
हरनयने च ललाटे शक्रस्यऽप्युगुत्ताना ॥ ७९॥

यस्याङ्गुल्यस्तु वितताः सहाङ्गुष्ठेन कुञ्चिताः ।
ऊर्ध्वा ह्यसङ्गताग्राश्च स भवेत् पद्मकोशकः ॥ ८०॥

बिल्वकपित्थफलानां ग्रहणे कुचदर्शनश्च नारीणाम् ।
ग्रहणे ह्यामिषलाभे भवन्ति ताः कुञ्चिताग्रास्तु ॥ ८१॥

बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् ।
देवार्चनबलिहरणे समुद्गके साग्रपिण्डदाने च ।
कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन ॥ ८२॥

मणिबन्धनविश्लिष्टाभ्यां प्रविरलचलिताङ्गुलिकराभ्याम् ।
कार्यो विवर्तिताभ्यां विकसितकमलोत्पलाविनयः ॥ ८३॥

अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य च ।
तथा निम्नतलश्चैव स तु सर्पशिराः करः ॥ ८४॥

एषः सलिलप्रदाने भुजगतौ तोयसेचने चैव ।
आस्फोटने च योज्यः करिकुम्भास्फालनाद्येषु ॥ ८५॥

अधोमुखीनां सर्वासामङ्गुलीनां समागमः ।
कनिष्ठाङ्गुष्ठकावूर्ध्वो स भवेत् मृगशीर्षकः ॥ ८६॥

इह साम्प्रतमस्त्यद्य शक्तेश्चोल्लासनेऽक्षपाते च ।
स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु भवेत् ॥ ८७॥

त्रेताग्निसंस्थिता मध्या तर्जन्याङ्गुष्ठका यदा ।
काङ्गुलोऽनामिका वक्रा यदाश्चोर्ध्वा कनीयसी ॥ ८८॥

एतेन तरुणफलानि नानाविधानि च लघूनि ।
कार्यानि रोषजानि स्त्रीवचान्यङ्गुलिक्षेपैः ॥ ८९॥

मरकतवैदूर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् ।
ग्राह्यं मरालपदमिति तज्ज्ञैरेव प्रयोगेषु ॥ ९०॥

आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि ।
पार्श्वागतविकीर्णाश्च स भवेदलपल्लवः ॥ ९१॥

प्रतिषेधकृते योज्यः कस्य त्वन्नास्ति शून्यवचनेषु ।
पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः ॥ ९२॥

तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी ।
तासां मध्ये स्थितोङ्गुष्ठः स करश्चतुरस्मृतः ॥ ९३॥

नयविनयनियमसुनितुणबालातुरसत्यकैतवार्थेषु ।
वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः ॥ ९४॥

एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन ।
विकृतविचारितचरितं वितर्कितं लज्जितं चैव ॥ ९५॥

नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः ।
संयुतकरणेनैव तु चरेणैतानि कुर्वीत ॥ ९६॥

लीला रती रुचि च स्मृतिबुद्धिविभावनाः क्षमां पुष्टिं च ।
सञ्ज्ञामात्रं प्रणयं विचारणं सङ्गतं शौचम् ॥ ९७॥

चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम् ।
प्रश्नं वार्तायुक्तिं वेषं मृदुशाद्वलं स्तोकम् ॥ ९८॥

विभवाविभौ सुरतं गुणागुणौ यौवनं गृहान् दारान् ।
नानावर्णाश्च तथा चतुरेणैवं प्रयुञ्जीत ॥ ९९॥

सितमूर्ध्वेन तु कुर्यात् रक्तं पीतं च मण्डलकृतेन ।
परिमुदितेन तु नीलं वर्णाश्चतुरेण हस्तेन ॥ १००॥

मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ।
ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ भ्रमरे करे ॥ १०१॥

पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम् ।
पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपुरश्च ॥ १०२॥

विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु ।
बालालापे च शीघ्रे च ताले विश्वासने तथा ॥ १०३॥

तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः ।
भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते ॥ १०४॥

श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे मृदुत्वयोगेषु ।
कार्योऽभिनयविशेषः किञ्चित्प्रस्यन्दिताग्रेण ॥ १०५॥

समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी ।
अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ॥ १०६॥

एष च निवापसलिले दातव्ये गण्डसंश्रये चैव ।
कार्यः प्रतिग्रहाचमनभोजनार्थेषु विप्राणाम् ॥ १०७॥

आलिङ्गने महास्तम्भदर्शने रोमहर्षणे चैव ।
स्पर्शेऽनुलेपनार्थे योज्यः संवाहने चैव ॥ १०८॥

पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः ।
कार्या यथारसं स्युर्दुःखे हनुधारणे चैव ॥ १०९॥

तर्जन्यङ्गुष्ठसन्दंशस्त्व ह्यरालस्य यथा भवेत् ।
आभुग्नतलमध्यस्थः स सन्दंश इति स्मृतः ॥ ११०॥

सन्दंशस्त्रिविधो ज्ञेय ह्यग्रजो मुखजस्तथा ।
तथा पार्श्वगतश्चैव रसभावोपबृंहितः ॥ १११॥

पुष्पापचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम् ।
शल्यावयवग्रहणापकर्षणे चाग्रसन्दंशः ॥ ११२॥

वृन्तात् पुष्पोद्धरणं वर्तिशलाकादिपूरणं चैअव ।
धिगिति च वचनं रोषे मुखसन्दंशस्य कर्माणि ॥ ११३॥

यज्ञोपवीतधारणवेधनगुणसूक्ष्मबाणलक्ष्येषु ।
योगे ध्याने स्तोके संयुक्तकरणस्तु कर्तव्यः ॥ ११४॥

पेशलकुत्सासूयादोषवचने च वामहस्तेन ।
किञ्चिद् विवर्तितकराग्रः प्रयुज्यते पार्श्वसन्दंशः ॥ ११५॥

आलेख्यनेत्ररञ्जनवितर्कवन्तप्रवालरचने च ।
निष्पीडनं तथालक्तकस्य कार्य च नारीभिः ॥ ११६॥

समागताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि ।
ऊर्ध्वा हंसमुखस्येव स भवेन्मुकुलः करः ॥ ११७॥

देवार्च्चनबलिकरणे पद्मोत्पलकुमुदरूपणे चैव ।
विटचुम्बने च कार्यो विकुत्सिते विप्रकीर्णश्च ॥ ११८॥

भोजनहिरण्यगणनामुखसङ्कोचप्रदानशीघ्रेषु ।
मुकुलितकुसुमेषु च तथा तज्ज्ञैरेष प्रयोक्तव्यः ॥ ११९॥

पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः कुञ्चिता यदा ।
ऊर्णनाभः स विज्ञेयः केशचौर्यग्रहादिषु ॥ १२०॥

शिरः कण्डूयने चैव कुष्ठव्याधिनिरूपणे ।
संहव्याघ्रेष्वभिनयः प्रस्तरग्रहणे तथा ॥ १२१॥

मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ।
शेषे तलस्थे कर्तव्ये ताम्रचूलकरेऽङ्गुली ॥ १२२॥

विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु ।
ताले विश्वसने चैव शीघ्रार्थे सन्ज्ञितेषु च ॥ १२३॥

तथा कलासु काष्ठासु निमेषे तु क्षणे तथा ।
एश एव करः कार्यो बालालापनिमन्त्रणे ॥ १२४॥

अथवा अङ्गुल्यः संहिता वक्रा उपर्युङ्गुष्ठपीडिताः ।
प्रसारिता कनीष्ठाच ताम्रचूडः करः स्मृतः ॥ १२५॥

शतं सहस्रं लक्षं च करेणैकेन योजयेत् ।
क्षिप्रमुक्ताङ्गुलीभिस्तु स्फुलिङ्गान् विप्रुषस्तथा ॥ १२६॥

असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः ।
अतश्च संयुतान् हस्तान् गदतो मे निबोधत ॥ १२७॥

पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः ।
देवतानां गुरूणां च मित्राणां चाभिवादने ॥ १२८॥

स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा ।
देवतानां शिरःस्थस्तु गुरूणामास्यसंस्थितः ।
वक्षस्थश्चैव मित्राणां स्त्रीणां त्वनियतो भवेत् ॥ १२९॥

उभाभ्यामपि हस्ताभ्यामन्योऽन्यं पार्श्वसङ्ग्रहात् ।
हस्तः कपोतको नाम कर्म चास्य निबोधत ॥ १३०॥

एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च सम्भाषे ।
शीते भये च कार्यो वक्षःस्थः कम्पितः स्त्रीभिः ॥ १३१॥

अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खिन्नवाक्येषु ।
एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे ॥ १३२॥

अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिस्सृताः ।
स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते ॥ १३३॥

एष मदनाङ्गमर्दे सुप्तोत्थितविजृम्भणे बृहद्देहे ।
हनुधारणे च योज्यः शङ्खग्रहणेऽर्थतत्त्वज्ञैः ॥ १३४॥

मणिबन्धविन्यस्तावरालौ स्त्रीप्रयोजितौ ।
उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥ १३५॥

स्वस्तिकविच्युइतिकरणाद् दिशो घनाः खं वनं समुद्राश्च ।
ऋतवो मही तथौघं विस्तीर्णं चाभिनेयं स्यात् ॥ १३६॥

खटकः खटके न्यस्तः खटकावर्धमानकः ।
शृङ्गारार्थेषु योक्तव्यः प्रणामकरणे तथा ॥ १३७॥

अन्ये - कुमुदीतालवृन्तेषु कर्तव्यश्छत्रधरणे । इति ॥ १३८॥

अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ ।
उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः ॥ १३९॥

सनिष्पेषकृते चैव रोमामर्षकृतेऽपि च ।
निष्पीडितः पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् ॥ १४०॥

मुकुलं तु यदा हस्तं कपित्थः परिचेष्टयेत् ।
स मन्तव्यस्तदा हस्तो निषधौ नाम नामतः ॥ १४१॥

सङ्ग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च ।
सङ्क्षेपः संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥ १४२॥

शिखरस्तु यदा हस्तो मृगशीर्षेण पीडितः ।
निषधो नाम विज्ञेयः स भयार्ते विधीयते ॥ १४३॥

गृहीत्वा वामहस्तेन कर्पुराभ्यन्तरे भुजम् ।
दक्षिणं चापि वामस्य कर्पुराभ्यन्तरे न्यसेत् ॥ १४४॥

स चापि दक्षिणो हस्तः सम्यङ् मुष्टीकृतो भवेत् ।
इत्येष निषधो हस्तः कर्म चास्य निबोधत ॥ १४५॥

एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः ।
अभिमानावष्टम्भः स्तम्भस्थैर्यादय कार्याः ॥ १४६॥

ज्ञेयो वै निषधो नाम हंसपक्षौ पराङ्गमुखौ ।
जालवातायनादीनां प्रयोक्तव्योऽभिघट्टने ॥ १४७॥

अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ ।
यदा भवेतां करणे स दोल इति सन्ज्ञितः ॥ १४८॥

सम्भ्रमविषादमूर्च्छितमदाभिघाते तथैव चाऽवेगे ।
व्याधिप्लुते च शस्त्रक्षते च कार्योऽभिनयोगः ॥ १४९॥

यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः ।
द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः स्मृतः ॥ १५०॥

धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि ।
ग्राह्याण्युपनेयानि च तोयानयनापनयने च ॥ १५१॥

पताकौ तु यदा हस्तावूर्र्धाङ्गुष्ठावधोमुखौ ।
उपर्युपरि विन्यस्तौ तदा स मकरः करः ॥ १५२॥

सिंहव्यालद्विपिप्रदर्शनं नक्रमकरमत्स्यानाम् ।
ये चान्ये क्रव्यादा ह्यभिनेयास्तेऽर्थयोगेन ॥ १५३॥

कूर्परांसोचितौ हस्तौ यदास्तां सर्पशीर्षकौ ।
गजदन्तः स विज्ञेयः कर्म चास्य निबोधत॥ १५४॥

एव च वधुवराणमुद्वाहे चातिभारयोगे च ।
स्तम्भग्रहणे च तथा शैलशिलोत्पाटने चैव ॥ १५५॥

शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ ।
शनैरधोमुखाविद्धौ सोऽवहित्थ इति स्मृतः ॥ १५६॥

दौर्बल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च ।
उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः ॥ १५७॥

मुकुलस्तु यदा हस्तः कपित्थपरिवेष्टितः ।
वर्धमानः स विज्ञेयः कर्म चास्य निबोधत ॥ १५८॥

सङ्ग्रहपरिग्रहौ धारणं च समयश्च सत्यवचं च ।
संक्षेपतस्तु संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥ १५९॥

ज्ञेयो वै वर्धमानस्तु हंसपक्षो पराङ्गमुखौ ।
जालवातायनादीनां प्रयोक्तव्यो विघाटने ॥ १६०॥

उक्ता ह्येते द्विविधा ह्यसंयुताः संयुताश्च संक्षेपात् ।
अभिनयकरास्तु ये त्विह तेऽन्यत्राप्यर्थतः साध्याः ॥ १६१॥

आकृत्या चेष्टया चिह्नैर्जात्या विज्ञाय तत्पुनः ।
स्वयं वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः ॥ १६२॥

नास्ति कश्चिदहस्तस्तु नाट्येऽर्थोऽभिनयं प्रति ।
यस्य यद् दृश्यते रूपं बहुशस्तन्मयोषितम् ॥१६३॥

अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह ।
छन्दतस्ते नियोक्तव्या रसभावविचेष्टितैः ॥ १६४॥

देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च ।
हस्ता ह्येते प्रयोक्तव्याः नृणां स्त्रीणां विशेषतः ॥ १६५॥

सर्वेषामेव हस्तानां यानि कर्माणि सन्ति हि ।
तान्यहं सम्प्रवक्ष्यामि रसभावकृतानि तु ॥ १६६॥

उत्कर्षणं विकर्षणं तथा चैवापकर्षणम् ।
परिग्रहो निग्रहश्चाह्वानं नोदनमेव च ॥ १६७॥

संश्लेषश्च वियोगश्च रक्षणं मोक्षणं तथा ।
विक्षेपधूनने चैव विसर्गस्तर्जनं तथा ॥ १६८॥

छेदनं भेदनं चैव स्फोटनं मोटनं तथा ।
ताडनं चेति विज्ञेयं तज्ज्ञैः कर्म करान् प्रति ॥ १६९॥

उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च ।
हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः ॥ १७०॥

सर्वे हस्तप्रचाराश्च प्रयोगेषु यथाविधिः
नेत्रभ्रूमुखरागैश्च कर्तव्या व्यञ्जिअता बुधैः ॥ १७१॥

करणं कर्म स्थानं प्रचायुक्तिं क्रियां च सम्प्रेक्ष्य ।
हस्ताभिनयतज्ज्ञैः कार्यो लोकोपचारेण ॥ १७२॥

उत्तामानां कराः कार्या ललाटक्षेत्रचारिणः ।
वक्षःस्थाश्चैव मध्यानामधमामधोगता ॥ १७३॥

ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये मध्यविचारिणः ।
अधमेषु प्रकीर्णाश्च हस्ताः कार्या प्रयोक्तृभिः ॥ १७४॥

लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः ।
लोकक्रियास्वभावेन नीचैरप्यर्थसंश्रयाः ॥ १७५॥

अथवान्यादृशं प्राप्य प्रयोगं कालमेव च ।
विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा ॥ १७६॥

विषण्णे मूर्च्छिते भीते जुगुप्साशोकपीडिते ।
ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे ॥ १७७॥

व्याधिग्रस्ते जरार्ते च भयार्ते शीतविप्लुते ।
मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ॥ १७८॥

हिमवर्षहते बद्धे वरिणाप्लवसंश्रिते ।
स्वप्नायिते च सम्भ्रान्ते नतसंस्फोटने तथा ॥ १७९॥

न हस्ताभिनयः कार्यः कार्यः सत्त्वस्य सङ्ग्रहः ।
तथा काकुविशेषश्च नानाभवरसान्वितः ॥ १८०॥

यत्र व्यग्रावुभौ हस्तौ तत्तद् दृष्टिविलोकनैः ।
वाचकाभिनयं कुर्याद्विरामैर्थदर्शकैः ॥ १८१॥

उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च ।
प्रचारस्त्रिविधोऽङ्गानां नाट्यनृत्तसमाश्रयः ॥ १८२॥

उत्तानो वर्तुलस्त्र्यश्रः स्थितोऽधोमुख एव च ।
पञ्च प्रकारा हस्तस्य नाट्यनृत्तसमाश्रयाः ॥ १८३॥

एवं ज्ञेयाः करा ह्येते नाभिनयसंश्रिताः ।
अत ऊर्ध्वं प्रवक्ष्यामि हस्तान् नृत्तसमाश्रयान् ॥ १८४॥

वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ ।
समानकूर्परांसौ तु चतुरस्रौ प्रकीर्तितौ ॥ १८५॥

हंसपक्षकृतौ हस्तौ व्यावृतौ तालवृन्तवत् ।
उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ ॥ १८६॥

चतुरस्त्रस्थितौ हस्तौ हंसपक्षकृतौ तथा ।
तिर्यक्स्थितौ चाभिमुखौ ज्ञेयौ तालमुखाविति ॥ १८७॥

तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ ।
स्वस्तिकाविति विख्यातौ विच्युतौ विप्रकीर्णकौ ॥ १८८॥

अलपल्लवसंस्थानावुर्ध्वास्यौ पद्मकोशकौ ।
अरालखटकाख्यौ चाप्यरालखटकामुखौ ॥ १८९॥

तथै मणिबन्धान्ते ह्यरालौ विच्युतावुभौ ।
ज्ञेयौ प्रयोक्तृभिर्नित्यमराल खटकाविति ॥ १९०॥

भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ ।
पराङ्गमुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ ॥ १९१॥

हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा ।
तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ ॥ १९२॥

सर्पशीर्षौ यदा हस्तौ भवेतां स्वस्तिकस्थितौ ।
मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा ॥ १९३॥

रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ ।
प्रसारितोत्तानतलौ रेचिताविति सन्ज्ञितौ ॥ १९४॥

चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः ।
विज्ञेयौ नृत्ततत्त्वज्ञैर्धरेचितसन्ज्ञकौ ॥ १९५॥

अञ्चितौ कूर्परांसौ तु त्रिपताकौ करौ कृतौ ।
किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तनवञ्चितौ ॥ १९६॥

मणिबन्धमुक्तौ तु पताकौ पल्लवौ स्मृतौ ।
बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ ॥ १९७॥

केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ यदा ।
विज्ञेयो केशबन्धौ तु करवाचार्यसम्मतौ ॥ १९८॥

तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च ।
लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति ॥ १९९॥

समुन्नतो लताहस्तः पार्श्वात्पार्श्व विलोलितः ।
त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः ॥ २००॥

कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ ।
पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः ॥ २०१॥

तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ ।
अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ॥ २०२॥

हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ ।
तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ २०३॥

ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् ।
तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ ॥ २०४॥

उद्वेष्टितौ भवेदेकौ द्वितीयश्चापवेष्टितः ।
भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ॥ २०५॥

अलपल्लवकारालावुरोद्वभ्रमणक्रमात् ।
पार्श्वावर्तश्च विज्ञेयावुरः पार्श्वार्धमण्डलौ ॥ २०६॥

हस्तौ तु मणीबन्धान्ते कुञ्चितावञ्चितौ यदा ।
खटकाख्यौ तु तौ स्यातां मुष्टिकस्वस्तिकौ तदा ॥ २०७॥

पद्मकोशौ यदा हस्तौ व्यावृत्तपरिवर्तितौ ।
नलिनीपद्मकोशौ तु तदा ज्ञेयौ प्रयोक्तृभिः ॥ २०८॥

करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ ।
ऊर्ध्वप्रसरिताविद्धौ कर्तव्यावुल्बणाविति ॥ २०९॥

पल्लवौ च शिरोदेशे सम्प्राप्तौ ललितौ स्मृतौ ।
कर्पूरस्वस्तिकगतौ लताख्यौ वलिताविति ॥ २१०॥

करणे तु प्रयोक्तव्यो नृत्तहस्तो विशेषतः ।
तथार्थाभिनये चैव पताकायाः प्रयोक्तृभिः ॥ २११॥

सङ्करोऽपि भवेत्तेषां प्रयोगोऽर्थवशात्पुनः ।
प्राधान्येन पुनः सन्ज्ञा नाट्ये नृत्ते करेष्विह ॥ २१२॥

वियुताः संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः ।
अतः परं प्रवक्ष्यामि करान् करणसंश्रयान् ॥ २१३॥

सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः ।
विधातव्या प्रयत्नेन करणं तु चतुर्विधम् ॥ २१४॥

अपवेष्टितमेकं स्यात् उद्वेष्टितमथापरम् ।
व्यावर्तितं तृतीयं तु चतुर्थं परिवर्तितम् ॥ २१५॥

आवेष्ट्यन्ते यदङ्गुल्यस्तर्जनाद्या यथाक्रमम् ।
अभ्यन्तरेण करणं तदावेष्टितमुच्यते ॥ २१६॥

उद्वेष्ट्यन्ते यदङ्गुल्यः तर्जन्याद्या बहिर्मुखम् ।
क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते ॥ २१७॥

आवर्त्यन्ते कनिष्ठाद्या ह्यङ्गुल्योऽभ्यन्तरेण तु ।
यथा क्रमेण करणं तद् व्यावर्तितमुच्यते ॥ २१८॥

उद्वर्त्यन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा ।
अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् ॥ २१९॥

नृत्तेऽभिनययोगे वा पाणिभिर्वर्तनाश्रये ।
मुखभ्रुनेत्रयुक्तानि करणानि प्रयोजयेत् ॥ २२०॥

तिर्यक्तथोर्ध्वसंस्थो ह्यधोमुखश्चाञ्चितोऽपविद्धस्तु ।
मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारि च ॥ २२१॥

उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु ।
बाह्वोरिति करणगता विज्ञेया नित्यं नृत्तप्रयोक्तृभिः ॥ २२२॥

हस्तानां करणविधिर्मया समासेन निगदितो विप्राः ।
अत ऊर्ध्वं व्याख्यास्ये हृदयोदरपार्श्वकर्माणि ॥ २२३॥

आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् ।
उद्वाहितं समं चैव उरः पञ्चविधं स्मृतम् ॥ २२४॥

निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित्
आभुग्नं तदुरो ज्ञेयं कर्म चास्य निबोधत ॥ २२५॥

संभ्रमविषादमूर्च्छाशोकभयव्याधिहृदयशल्येषु ।
कार्यं शीतस्पर्शे वर्षे लाजान्वितेऽर्थवशात् ॥ २२६॥

स्तब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् ।
उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत ॥ २२७॥

स्तम्भे मानग्रहणे विस्मयदृष्टे च सत्यवचने च ।
अहमिति च दर्पवचने गर्वोत्सेके तु कर्तव्यम् ॥२२८॥

[दीर्घनिश्वसिते चैव जृम्भणे मोटने तथा ।
बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ] ॥ २२९॥

ऊर्ध्वोत्क्षेपैरुरो यत्र निरन्तरकृतैः कृतम् ।
प्रकम्पितं तु विज्ञेयमुरो नाट्यप्रयोक्तृभिः ॥ २३०॥

हसितरुदितादिसम्भ्रमभयश्रमव्याधिपीडितार्थेषु ।
नानाभावोपगतं कार्यमुरो नाट्ययोगेषु ॥ २३१॥

हसितरुदितेषु कार्ये श्रमे भये श्वसकाशयोश्चैव ।
हिक्कादुःखे च तथा नाट्यज्ञैरर्थयोगेन ॥ २३२॥

उद्वाहितमूर्ध्वगतमुरो ज्ञेयं प्रयोक्तृभिः ।
दीर्घोच्छ्वसनता लोके जृम्भनादिषु चेक्ष्यते॥ २३३॥सर्वैः
ससौष्ठवैरञ्गैश्चतुरस्रकृतैः कृतम् ।
उरः समन्। तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् ॥ २३४॥

एतदुक्तं मय सम्यगरसस्तु विकल्पनम् ।
अत ऊर्ध्वं प्रवक्ष्यामि पार्श्वयोरिह लक्षणम् ॥ २३५॥

नतं समुन्नतं चैव प्रसारितविवर्तितो ।
तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा ॥ २३६॥

कटिर्भवेत्तु व्याभुग्ना पार्श्वमाभुग्नमेव च ।
तथैवापसृतांसं च किञ्चित्पार्श्वनतं स्मृतम् ॥ २३७॥

तस्यैव चापरं पार्श्वं विपरीतं तु युक्तितः ।
कटीपार्श्वभुजांसैश्चाभ्युन्नतैरुतं भवेत् ॥ २३८॥

आयामनादुभयतः पाश्वयोः स्यात् प्रसारितम् ।
परिवर्तात्रिकस्यापि विवर्तितमिहेष्यते ॥ २३९॥

विवर्तितापनयनाद् भवेदपसृतं पुनः ।
पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत ॥ २४०॥

उपसर्पे नतं कार्यमुन्नतं चापसर्पणे ।
प्रसारितं प्रहर्षादौ परिवृत्ते विवर्तितम् ॥२४१॥

विनिवृत्ते त्वपसृतं पार्श्वमर्थवशाद्भवेत् ।
एतानि पार्श्वकर्माणि जठरस्य निबोधत ॥ २४२॥

क्षामं खल्वं च पूर्णं च सम्प्रोक्तमुदरं त्रिधा ।
तनु क्षामं नतं खल्वं पूर्णमाध्मातमुच्यते ॥ २४३॥

क्षामं हास्येऽथ रुदिते निःश्वासे जृम्भने भवेत् ।
व्याधिते तपसि श्रान्ते क्षुधार्ते खल्वमिष्यते ॥ २४४॥

पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु ।
इत्येतदुदरं प्रोक्तं कट्याः कर्म निबोधत ॥ २४५॥

अन्ये तु
क्षामं खल्वं समं पूर्णमुदरं स्याच्चतुर्विधम् ।
छिना चैव निवृत्ता च रेचिता कम्पिता तथा ।
उद्वाहिता चैव कटी नाट्ये नृत्ते च पञ्चधा ॥ २४६॥

कटी मध्यस्य वलनात्च्छिना सम्परिकीर्तिता ।
पराङ्ग्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता ॥ २४७॥

सर्वतो भ्रमणाच्चापि विज्ञेया रेचिता कटी ।
तिर्यग्गतागता क्षिप्ता कटी ज्ञेया प्रकम्पिता ॥ २४८॥

नितम्बपार्श्वोद्वहनात् शनेइरुद्वाहिता कटी ।
कटीकर्म मया प्रोक्तं विनियोगं निबोधत ॥ २४९॥

छिन्ना व्यायामसम्भ्रान्तव्यावृत्तप्रेक्षणादिषु ।
निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु ॥ २५०॥

कुब्जवामननीचानां गतौ कार्या प्रकम्पिता ।
स्थूलेषूद्वाहिओता योज्या स्त्रीणां लीलागतेषु च ॥ २५१॥

कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा ।
निवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत् ॥ २५२॥

नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम् ।
गच्छेदभ्यन्तरं जानु यत्र तद्वलनं स्मृतम् ॥ २५३॥

स्तम्भनं चापि विज्ञेयमपविद्धक्रियात्मकम् ।
वलिताविद्धकरणादूर्वोरुद्वर्तनं स्मृतम् ॥ २५४॥

पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्तु निवर्तनम् ।
गतिष्वधमपात्रणां भये चापि हि कम्पनम् ॥ २५५॥

वलनं चैव हि कर्तव्यं स्त्रीणां स्वैरपरिक्रमे ।
साध्वसे च विषादे च स्तम्भनं तु प्रयोजयेत् ॥२५६॥

व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं बुधैः ।
निवर्तनं तु कर्तव्यं सम्भ्रादिपरिभ्रमे ॥ २५७॥

यथादर्शनमन्यच्च लोकाद् ग्राह्यं प्रयोक्तृभिः ।
इत्यूर्व्रोर्लक्षणं प्रोक्तं जङ्घायास्तु निबोधत ॥ २५८॥

आवर्तितं नतं क्षिप्तमुद्वाहितमथापि च ।
परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा ॥ २५९॥

वामो दक्षिणपार्श्वेन दक्षिणश्चापि वामतः ।
पादो यत्र व्रजेद्विप्राः तदावर्तितमुच्यते ॥ २६०॥

जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत् ।
जानुनः कुञ्चनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः ।
विक्षेपाच्चैव जङ्घायाः क्षिप्तमित्यभिधीयते ॥ २६१॥

[नतं स्याज्जानुनमनात् क्षिप्तं विक्षेपणाद् बहि] ।
उद्वाहितं च विज्ञेयमूर्ध्वमूद्वाहनादपि ।
प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते ॥ २६२॥

आवर्तितं प्रयोक्तव्यं विदूषकपरिक्रमे ।
नतं चापि हि कर्तव्यं स्थानासनगतादिषु ॥ २६३॥

क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते ।
तथा चोद्वाहितं कुर्यादाविद्धगमनादिषु ॥ २६४॥

ताण्डवेषु प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः ।
इत्येतज्जङ्घयोः कर्म पादयोस्तु निबोधत ॥ २६५॥

उद्घट्टितः समश्चैव तथाग्रतलसञ्चरः ।
अञ्चितः कुञ्चितश्चैव पादः पञ्चविध स्मृतः ॥ २६६॥

स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते ।
यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः ॥ २६७॥

अयमुद्वेष्टितकरणे त्वनुकरणार्थं प्रयोगमासाद्य ।
द्रुतमध्यमप्रचारः सकृदसकृदा प्रयोक्तव्यः ॥ २६८॥

स्वभावरचिते भूमौ समस्थाने च यो भवेत् ।
समः पादः स विज्ञेयः स्वभावाभिनयाश्रयः ॥ २६९॥

स्थिरस्वभावाभिनये नानाकरणसंश्रये ।
चलितश्च पुनः कार्यो विधिज्ञैः पादरेचिते ॥ २७०॥

समस्यैव यदा पार्ष्णिः पादस्याभ्यन्तरे भवेत् ।
बहिः पार्श्वस्थितोऽङ्गुष्ठस्त्र्यश्रपादस्तु स स्मृतः ॥ २७१॥

त्यक्त्वा (कृत्वा?) समपदं स्थानमश्वक्रान्ते तथैव च ।
स्याद्विक्लवादिष्वर्थेषु त्र्यश्रः पादो यथाविधिः ॥ २७२॥

अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् ।
त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः ॥ २७३॥

उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोङ्गुष्ठकस्तथा ।
अङ्गुल्यश्चाञ्चिताः सर्वा पादेऽग्रतलसञ्चरः ॥ २७४॥

तोदननिकुट्टने स्थितनिशुम्भने भूमिताडने भ्रमणे ।
विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन ॥ २७५॥

पार्ष्णिर्यस्याञ्चिता भूमौ पादमग्रतलं तथा ।
अङ्गुल्यश्चाञ्चिताः सर्वाः स पादस्त्वञ्चितः स्मृतः ॥ २७६॥

पादाग्रतलसञ्चारे वर्तितोद्वर्तिते तथा ।
एव पादाहते कार्यो नानाभ्रमरकेषु च ॥ २७७॥

उत्क्षिप्ता यस्य पार्ष्णी स्यादङ्गुल्यः कुङ्चितास्तथा ।
तथा कुञ्चितमध्यश्च स पादं कुञ्चितः स्मृतः ॥ २७८॥

उदत्तगमने चैव वर्तितोद्वर्तिते तथा ।
उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः ॥ २७९॥

वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः ।
नृत्ते नूपुरकरणे प्रयोगस्तस्य कीर्त्यते ॥ २८०॥

अतिक्रान्तक्रमे चैव पादमेतं प्रयोजयेत् ।
पादजङ्घोरुकरणं कर्म कार्य प्रयोक्तृभिः ॥ २८१॥

पादस्य करणं सर्व जङ्घोरुकृतमिष्यते ।
यथा पादः प्रवर्तेत तथैवोरुः प्रवर्तते ॥ २८२॥

अनयोः समानकरणात् पादचारी प्रयोजयेत् ।
इत्येतदङ्गजं प्रोक्तं लक्षणं कर्म चैव हि ॥ २८३॥

अतः परं प्रवक्ष्यामि चारीव्यायामलक्षणम् ॥ २८४॥

इति भारतीये नाट्यशास्त्रे अङ्गाभिनयो नाम नवमोऽध्यायः ।

वर्गः:नाट्यशास्त्रम्

Page is sourced from

sa.wikisource.org नाट्यशास्त्रम्/अध्यायः ९