कूर्मपुराणम्-पूर्वभागः/अष्टादशोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:कूर्मपुराणम्-पूर्वभागः

सूत उवाच ।
बलेः पुत्रशतं त्वासीन्महाबलपराक्रमम् ।
तेषां प्रधानो द्युतिमान् बाणो नाम महाबलः ।। १८.१

सोऽतीव शंकरे भक्तो राजा राज्यमपालयत् ।
त्रैलोक्यं वशमानीय बाधयामास वासवम् ।। १८.२

ततः शक्रादयो देवा गत्वोचुः कृत्तिवाससम् ।
त्वदीयो बाधते ह्यस्मान् बाणो नाम महासुरः ।। १८.३

व्याहृतो दैवतैः सर्वैर्देवदेवो महेश्वरः ।
ददाह बाणस्य पुरं शरेणैकेन लीलया ।। १८.४

दह्यमाने पुरे तस्मिन् बाणो रुद्रं त्रिशूलिनम् ।
ययौ शरणमीशानं गोपतिं नीललोहितम् ।। १८.५

मूर्द्धन्याधाय तल्लिङ्गं शांभवं भीतवर्जितः ।
निर्गत्य तु पुरात् तस्मात् तुष्टाव परमेश्वरम् ।। १८.६

संस्तुतो भगवानीशः शंकरो नीललोहितः ।
गाणपत्येन बाणं तं योजयामास भावतः ।। १८.७

अथाभवन् दनोः पुत्रास्ताराद्या श्चातिभीषणाः ।
तारस्तथा शम्बरश्च कपिलः शंकरस्तथा ।
स्वर्भानुर्वृषपर्वा च प्राधान्येन प्रकीर्तिताः ।। १८.८

सुरसायाः सहस्रं तु सर्पाणामभवद् द्विजाः ।
अनेकशिरसां तद्वत् खेचराणां महात्मनाम् ।। १८.९

अरिष्टा जनयामास गन्धर्वाणां सहस्रकम् ।
अनन्ताद्या महानागाः काद्रवेयाः प्रकीर्तिताः ।। १८.१०

ताम्रा च जनयामास षट् कन्या द्विजपुंगवाः ।
शुकीं श्येनीं च भासीं च सुग्रीवां ग्रन्थिकां शुचिम् ।। १८.११

गास्तथा जनयामास सुरभिर्महिषीस्तथा ।
इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः ।। १८.१२

तथा वै यक्षरक्षांसि मुनिरप्सरसस्तथा ।
रक्षोगणं क्रोधवशाज्जनयामास सत्तमाः ।। १८.१३

विनतायाश्च पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ ।
तयोश्च गरुडो धीमान् तपस्तप्त्वा सुदुश्चरम् ।
प्रसादाच्छूनिलः प्राप्तो वाहनत्वं हरेः स्वयम् ।। १८.१४

आराध्य तपसा रुद्रं महादेवं तथाऽरुणः ।
सारथ्ये कल्पितः पूर्वं प्रीतेनार्कस्य शंभुना ।। १८.१५

एते कश्यपदायादाः कीर्त्तिताः स्थाणुजङ्गमाः ।
वैवस्वतेऽन्तरेह्यस्मिञ्छृण्वतां पापनाशनाः ।। १८.१६

सप्तविंशतसुताः प्रोक्ताः सोमपत्न्याश्च सुव्रताः ।
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।। १८.१७

बहुपुत्रस्य विदुषश्चतस्त्रो विद्युतः स्मृताः ।
तद्वदङ्गिरसः पुत्रा ऋषयो ब्रह्मसत्कृताः ।। १८.१८

कुशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः ।
एते युगसहस्त्रान्ते जायन्ते पुनरेव हि ।
मन्वन्तरेषु नियतं तुल्य कार्यैः स्वनामभिः ।। १८.१९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे अष्टादशोऽध्यायः।।

वर्गः:कूर्मपुराणम्-पूर्वभागः

Page is sourced from

sa.wikisource.org कूर्मपुराणम्-पूर्वभागः/अष्टादशोऽध्यायः