Difference between revisions of "ऋग्वेदः सूक्तं ५.१६"

From HinduismPedia
Jump to navigation Jump to search
(Created page with "{{header | title = ऋग्वेदः - मण्डल ५ | author = पूरुरात्रेयः |...")
 
Line 103: Line 103:
  
 
{{ऋग्वेदः मण्डल ५}}
 
{{ऋग्वेदः मण्डल ५}}
 +
 +
===Page is sourced from===

Revision as of 18:07, 18 October 2020


बृहद्वयो हि भानवेऽर्चा देवायाग्नये ।
यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः ॥१॥
स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः ।
वि हव्यमग्निरानुषग्भगो न वारमृण्वति ॥२॥
अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः ।
विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः ॥३॥
अधा ह्यग्न एषां सुवीर्यस्य मंहना ।
तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः ॥४॥
नू न एहि वार्यमग्ने गृणान आ भर ।
ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥५॥


Template:सायणभाष्यम्

Template:ऋग्वेदः मण्डल ५

Page is sourced from