अग्निपुराणम्/अध्यायः १८१

From HinduismPedia
Revision as of 16:46, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
षष्ठीव्रतानि

Template:अग्निपुराणम्

अग्निरुवाच
षष्ठीव्रतानि वक्ष्यामि कार्त्तिकादौ समाचरेत्(२) ।१८१.००१
षष्ट्यां फलाशनो(३)ऽर्घ्याद्यैर्भुक्तिमुक्तिमवाप्नुयात् ॥१८१.००१
टिप्पणी
२ ऐरावत इत्यादिः, कार्त्तकादौ समाचरेदित्यन्तः पाठः झ.. पुस्तके नास्ति
३ षष्ट्यां मलाशनोऽर्घ्याद्यैरिति ट..

स्कन्दषष्ठीव्रतं प्रोक्तं भाद्रे षष्ट्यामथाक्षयं ।१८१.००२
कृष्णषष्ठीव्रतं वक्ष्ये मार्गशीर्षे चरेच्च तत्(१) ॥१८१.००२
अनाहारो वर्षमेकं भुक्तिमुक्तिमवाप्नुयात् ।१८१.००३
टिप्पणी
१ मार्गशीर्षे चरेद्व्रतमिति घ.. , ज.. , झ.. , ट.. च



इत्याग्नेये महापुराणे षष्ठीव्रतानि नाम एकाशीत्यधिकशततमोऽध्यायः ॥

Page is sourced from

sa.wikisource.org अग्निपुराणम्/अध्यायः १८१