अग्निपुराणम्/अध्यायः १६४

From HinduismPedia
Revision as of 16:45, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

अथ चतुःषष्ट्यधिकशततमोऽध्यायः Template:अग्निपुराणम्

नवग्रहहोमः

पुष्कर उवाच
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।१६४.००१
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः ॥१६४.००१
टिप्पणी
१ मनुष्यादीनिति ख.. , छ.. च
२ आयुः प्रज्ञाधनमिति ज.. । आयुः प्रजां बलमिति घ..
३ प्रीताः पितृपितामहा इति ङ..

सूर्यः सोमो मङ्गलश्च बुधश्चाथ बृहस्पतिः ।१६४.००२
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥१६४.००२
ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णर्कादुभौ ।१६४.००३
रजतादयसः शीशात्ग्रहाः कार्याः क्रमादिमे ॥१६४.००३
सुवर्णैर्वायजेल्लिख्य गन्धमण्डलकेषु वा ।१६४.००४
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥१६४.००४
गन्धाश्च वलयश्चैव धूपो देयस्तु गुग्गुलुः ।१६४.००५
कर्तव्या मन्त्रयन्तश्च चरवः प्रतिदैवतं ॥१६४.००५
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।१६४.००६
उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्तिताः ॥१६४.००६
बृहस्पते अतियदर्यस्तथैवाल्पात्परिश्रुतः ।१६४.००७
शन्नो देवीस्तथा काण्डात्केतुं कृन्वन्निमास्तथा ॥१६४.००७
अर्कः पालाशः खदिरो ह्यपामार्गोथ(१) पिप्पलः ।१६४.००८
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥१६४.००८
एकैकस्यात्राष्टशतमष्टाविंशतिरेव वा ।१६४.००९
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥१६४.००९
गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं ।१६४.०१०
दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च ॥१६४.०१०
दद्याद्ग्रहक्रमदेतद्द्विजेभ्यो भोजनं बुधः ।१६४.०११
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं ॥१६४.०११
धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।१६४.०१२
टिप्पणी
१ खदिरस्त्वपामार्गोऽथेति ग.. , घ.. , ञ.. च

कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् ॥१६४.०१२
यश्च यस्य यदा दूष्यः(१) स तं यत्नेन पूजयेत् ।१६४.०१३
ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च ॥१६४.०१३
ग्रहाधीना नरेन्द्राणा(२) मुछ्रयाः पतनानि च ।१६४.०१४
भावभावो च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥१६४.०१४

इत्याग्नेये महापुराणे नवग्रहहोमो नाम चतुःषष्ट्यधिकशततमोऽध्यायः ॥

Page is sourced from

sa.wikisource.org अग्निपुराणम्/अध्यायः १६४