अग्निपुराणम्/अध्यायः १५२
Jump to navigation
Jump to search
Template:अग्निपुराणम् गृहस्थवृत्तिः
पुष्कर उवाच
आजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।१५२.००१
क्षत्रविट्शूद्रधर्मेण जीवेन्नैव तु शूद्रजात् ॥१५२.००१
कृषिवाणिज्यगोरक्ष्यं कुशीदञ्च द्विजश्चरेत् ।१५२.००२
गोरसं गुडलवणलाक्षामांसानि वर्जयेत् ॥१५२.००२
भूमिं भित्वौषधीश्छित्वा हुत्वा कोटपिपीलिकान् ।१५२.००३
पुनन्ति खलु यज्ञेन कर्षका देवपूजनात् ॥१५२.००३
हलमष्टगवं धर्म्यं षड्गवं जीवितार्थिनां ।१५२.००४
चर्तुर्गवं नृशंसानां द्विगवं धर्मघातिनां ॥१५२.००४
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ।१५२.००५
सत्यानृताभ्यामपिवा न स्ववृत्त्या कदा च न ॥१५२.००५
इत्याग्नेये महापुराणे गृहस्थवृत्तयो नाम व्रिपञ्चाशदधिकशततमोऽध्यायः ॥